सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/490

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४८
सिद्धान्तशिरोमणी गोलाध्याये

 यन्त्रप्रकाशे रामेणवं यन्त्रकरणमुक्तम्। अथवा कि दृक्कर्मानयनप्रयासेन । यत्र केन्द्रं ध्रुवस्थानं तस्मादुपरि याम्यसूत्रे चतुस्त्रिशत्कलाधिकाष्टांशैः क्रान्तिवृत्तकेन्द्रकदम्बसंज्ञं भवति । ग्रन्थोक्तसायननक्षत्रध्रुवकमक्षता यत दृक्कर्मकं क्रान्तिवृत्ते दद्यात् ॥ ततः कदम्बान् नक्षत्रध्रुवकचिह्नलग्नं पालिवृत्तं यावत्सूत्रं नयेत् । अस्मिन्सूत्रे तन्नक्षत्रशरज्या खगुणगुणा जिनज्यायुक्तत्रिज्याभाजिता कदम्बसूत्रनक्षत्रधुवकसम्पातादुपयधो याम्योत्तरशरे सति क्रमेण देया तत्र नक्षत्रचक्षुः कार्या। पूर्वरेखायां केवल सायनश्रुवके लापिते तच्चश्धौ चलायितायां द्विस्थानसंलग्नमृगास्यमध्ये दृक्कर्मायनं भवति । अमुष्माद्यन्त्रात् कालादिज्ञाने महेन्द्रसूरिपद्यांनि-

'करेऽपसव्ये विनिवेश्य यन्त्र ज्योतिविदा भास्करसम्मुखेन।
तथा भुजाग्रं परिचालनीयं यथा विशेत् छिद्रयुगेऽर्कतेजः ॥
पूर्वेऽहनि प्राक्ककुभो भुजाग्रस्पृष्टा रवेरुन्नतभागकाः स्युः ।
त एव मध्यन्दिनतोऽपरांशा रात्रौ ग्रहोडुष्वपि चेवमेव ॥
रयंव्यंशक प्रागपरे च भूजे धृत्वोन्नतांशोपरिगे कृतेऽस्मिन्।
द्विस्थानसंलग्नमृगास्यमध्ये कालांशकैः पङ्क्तपलप्रमाणः ॥
षड्भविभक्तदिवसस्य यातं शेषं च पटच्यादि परिस्फुटं स्यात् ॥
तथोन्नतांशस्पृशि भास्करांशे प्राग्भूजगः सायनलग्नभागः ॥
एवं रवेः सप्तमराशिभागो यत्रैव होरावलयेऽस्ति सैव ॥
होराद्युनाथाच्च नतश्च षष्ठं षष्ठस्य गण्या परभूजवृत्तात् ॥
रव्यंशक प्राकू क्षितिजे निवेश्य चिहूं मृगास्ये विरचय्य पश्चातू।
अभीष्टकाले घटिकोपरिस्थ तदेव धृत्वा परिचिन्तनीयम् ॥
रव्यंशको यत्र हि तुङ्गवृत्ते तदङ्कसंख्यास्तपनोन्नतांशाः ।
मध्याह्नतोऽस्तक्षितिजात्तथैव ते बोधनीया स्वधियाऽवशिष्टाः ||
विद्धोन्नतांशीपगते च भास्ये रव्यंशकेऽस्तेन्द्रकुजस्थिते च ।
चिह्मद्वयान्तर्गतशेषनाडीपलादिपूर्वापररात्रिभागे ||
तत्रैव नक्षत्रमुखे निविष्टे प्राग्भूजगं सायनलग्नमेति ।
सूर्याशकाधिष्ठितवृत्तसंस्था तदा च होरापि निशि स्फुटा स्थातू ॥
अड्रंश ९॥११ होरायुज लग्नभागे खमध्यगौ नैधनधर्मभावंौ ।
द्वितुर्यहोरास्पृश सप्तमाशे खमध्यगावेव शिवार्कसंख्यौ ।
रात्रावभीष्टग्रहऋक्षयोश्च विद्ध्वोन्नतांशान्निजभागसंस्थे।
भास्ये ग्रहाप्सोन्नतभागभांशः स्फुटी भवेत्तस्य तदा खगस्य ॥
स्रंभादिकानामनुविध्य चाग्रं यन्त्रेण नक्षत्रवदुन्नतायाः ।
`ज्ञप्तैश्च पादाग्रभुवं भुजाग्रमप्यङ्कयित्वा च तदुन्नतांशान् ॥
ज्ञात्वाथ कोष्टद्वितयाच्च शङ्कच्छायां गृहीत्वाऽन्यतरस्य चैकम् ।
क्षिपन् विकर्षन् स्वधियाऽत्र भूयो भुजाग्रभागेन तदेव विद्ध्वा ||


१. यन्त्र० चि० ५ अ० १- ३ श्लो० ।