पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/469

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२७
ग्रहणवासना

क्रान्तियाम्योत्तरं वृत्तं कदम्बद्वयकीलयोः ।
प्रोतं कृत्वा चलं न्यस्तं द्वन्द्वान्ते स्याद्ध्रुवोपरि ॥ ५९ ।।
द्न्द्वान्ताच्चाल्यतेंऽशैयैस्तैरेव चलति ध्रुवात् ।
जिनवृत्ते तदंशानां तत्र ज्या क्रान्तिशिञ्जिनी ॥ ६० ।।
आयनं सैव वलनं द्युज्याग्रे जायते ग्रहात्।
ग्रहधुवान्तरे यस्माद्द्युज्याचापांशकाः सदा ॥ ६१ ॥
त्रिज्यावृते.युती देयं तत्रातः परिणाम्यते।
एवमक्षांशकैवृत्तं समाख्यात् परितो न्यसेत् ॥ ६२ ।।
समकीलकयोः प्रोतं तथा याम्योत्तरं चलम् ।
तत्तत्खेटोपरि न्यस्तं यैरंशैः खार्धतो नतम् ॥ ६३ ।।
समवृत्तेऽक्षवृत्ते च तैरेव स्यान्तं ध्रुवातू।
समवृत्तनतांशज्याक्षज्यापरिणताक्षजम् ॥ ६४ ।।
द्युज्याग्रे वलनं प्राग्वत् त्रिज्याग्रे परिणाम्यते।
उपपत्यानया सम्यक् समवृत्तनतांशजम् ॥ ६५ ।
वलनं स्यात् तथा वक्ष्ये स्वाहोरात्रनतादपि ।
अग्रानृतलयोर्योगः समदिक्त्वेऽन्यथान्तरम् ॥ ६६ ।।
तत्त्रिज्यावर्गविश्लेषपदभक्ताक्षशिञ्जिनी ।
तासुदोज्र्यया क्षुण्णा वलनं पलजं स्फुटम् ॥ ६७ ।।
नतं खाङ्काहतं भक्ततं द्युदलेनाप्तभागकैः ।
क्रमज्याक्षज्यया क्षुण्णा स्थूलं वा द्युज्यया हृता ॥ ६८ ॥
द्युज्यावृत्तापवृतैक्ये न्यसेद्वा रविमण्डलम् ।
बिम्बाग्रे वलनं तद्यदन्तरं वृत्तयोस्तयोः ॥ ६९ ।।
बिम्बान्तबिम्बमध्योत्थक्रान्तिमौव्योंस्तदन्तरम् ।
अर्कदोभोंग्यखण्डध्न बिम्बार्ध तत्वदसहुत् ॥ ७० ॥
जिनज्याध्नं त्रिभज्यासमेवं स्यादन्तरं हि तत्।
बिम्बार्धहृत् त्रिभज्याघ्नमेवं त्रिज्यागतं भवेत् ॥ ७१ ।।