४०४
सिद्धान्तशिरोमणौ गोलाध्यायै
ग्रहयोगे कृते भवति । पातस्य विलोमगत्वात् । स योगः शरार्थ केन्द्रम् । यदि त्रिज्यातुल्यया
केन्द्रज्यया परम: शरस्तदाभीष्टयानया क इति । फल प्रतिमण्डलविमण्डलयोस्तियगन्तरं स्यात्।
विमण्डलस्थग्रहाद्यद्भूमध्यग सूत्र तद्भूग्रहान्तरम् । स च शीघ्रकर्णः । यदि भूमध्यात् कर्णाग्र
एतावान् विक्षेपस्तदा त्रिज्याग्रे कियानिति द्वितीय त्रैराशिकम्। आद्य त्रिज्या हरो द्वितीये गुण
स्तयोर्नाशे कृते केन्द्रज्यायाः परमशरगुणायाः कर्णो हरः । फलं कक्षावृत्तसूत्रयोस्तिर्यगन्तरम् ।
स स्फुटः शरः ॥ २४-२६ ॥
वा० वा० - प्रतिपादितार्थस्य वैशद्यमाह-ग्रहस्यगोले कथितापमण्डलमिति ।
अत्र भाष्यं स्पष्टम् ॥ २४३-२६ ॥
इदानीमहोरात्रवृत्तमाह—
ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाडिकाख्यादहोरात्रवृत्ताहुयम् ।
तत्रबद्ध्वा घटनांच षष्ट्याङ्येदस्य विष्कम्भखण्डं युजीवाष्मता ॥२७॥
वा० भा० -नाडीवृत्तादुतरतो दक्षिणतो वा सर्वत इष्टक्रान्तितुल्येऽन्तरे यद्वृत्तं
निबध्यते तदहोरात्रवृत्तम् । तेन वृत्तेन तस्मिन् दिने रविर्भ्रामतीत्यर्थः । तस्य वृत्तस्य व्यासार्धं
द्युज्या। २७ ॥
इदानीमन्यदाह-
अथ कल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात् ।
एषां मेषादीनां द्युरात्रवृत्तानि बध्नीयात् ॥२८॥
नाडीवृत्तोभयतस्त्रीणि त्रीणि क्रमोत्क्रमात् तानि ।
वा० भा०-क्रान्तिपाताङ्कादारभ्य त्रिशता त्रिशता भागैरन्यान् मेषादीन् प्रकल्प्य
तदग्रेषूक्तवदहोरात्रवृत्तानि बध्नीयात् । तानि च नाडीवृत्तस्योभयतस्त्रीणि त्रीणि भवन्ति ॥
तान्येव क्रमोत्क्रमतः सायनांशाकस्य द्वादशराशीनाम् ॥ २८-२९ ।।
इदानीमस्योपसंहारमाह—
एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः ॥२९॥
अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव ।
शन्यादीनां कक्षा बध्नीयादूर्णनाभजालाभाः ॥३०॥
बद्ध्वा भगोलमेवं यष्टयां यष्टि खगोलनलिकान्तः ।
प्रक्षिप्य भ्रमयेत् तं यटयाधारं स्थिरौ खदृग्गोली।३१।।
वा० भा०-यथायं भगोलो बद्धस्तथैव ग्रहगोला अपि बन्धनीयाः। किंतु तेषां
छेद्यकमन्तश्चालयितुं नायातीति बहिःस्थमेव दर्शनीयम् । अथवात्र भगोले यदपमण्डलं
तस्याघोऽधस्तन्निबद्धेः सूत्राधारैर्बद्ध्वा शनैश्चरादीनां कक्षा दर्शनीयाः । एवं विधं भगोलं
|