पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/445

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०३
गोलबन्धाधिकार:

तस्मिन् सपाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः ॥ अतस्तुल्यशोध्यक्षेपयोर्नाशे कृते शीघ्रोच्चपातयोग
एवावशिष्यत इत्युपपन्नम् ।
 किच मन्दस्फुटोन शीघ्रोच्च प्रतिमण्डले चलकेन्द्रम्। तत् पाते क्षेप्तुं युज्यते। एवं
कृते सति विक्षेपकेन्द्र मन्दफलेनान्तरित स्यात्। ग्रहच्छायाधिकारे सितज्ञपाती स्फुटी स्त
श्चलकेन्द्रयुक्तावित्यत्र मन्दस्फुटोन शीघ्रोच्च शीघ्र केन्द्र पाते क्षिसम्। अतस्तत्र मन्दफला
न्तरमङ्गीकृतमित्यर्थः । इतरकेन्द्रस्यानुपपत्तेः । अतो मन्दफलं पातेऽव्यस्तं देयम् । यतोऽनु
पातसिद्धं चलकेन्द्रं मध्यग्रहोनशीघ्रोच्चतुल्यं भवति । यत्तु भगोले क्रान्तिद्दृक्तं तत् कक्षा
वृत्तम् । तत्र यद्विमण्डलं तत्र स्फुटग्रहः ।। तत्स्फुटपातयोगो हि विक्षेपकेन्द्रम् । अतः स्फुट
पातस्थाने संपातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटीकृतैः परमविक्षेपांश: प्राग्वदुतरे दक्षिणे च
विन्यस्यम् । तथा न्यस्ते विमण्डले स्फुटग्रहस्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो
दृश्यते नान्यथेत्यर्थः ।॥ २३-२४३ ।।
 वा० वा०-अत्र मन्दकणेंन यद्वृत्तमुत्पद्यते तत् कक्षामण्डलमिति कर्णानुपातो न
कृतः । बुधशुक्रोच्चात्साधितौ शरौ बुधशुक्रशरौ भवत इत्यत्र चतुर्वेदेनानध्यवसायः
कृतस्तत्रोपपतिमाह-ये चात्र पातभगणा इति । चलाद्विशोध्य इंति । मन्दस्पष्टोनं
शीघ्रोच्चं शीघ्रकेन्द्र तत्र पातो योज्यः सम्पूर्णपातो भवति । स सम्पूर्णपातो मन्दस्पष्टे
योज्यः शरसाधनार्थं केन्द्रं भवति । तत्र संशोध्यमानं स्वमृणमित्यनेन सुगमम् ।
स्पष्टबुधशुक्राभ्यां शरसाधने कीदृशः स्पष्टपातः साध्य इति प्रतिपादयति-स्फुटो
नशीघ्रोच्चयुतौ स्फुटाविति । स्पष्टपातस्थानं दर्शयति-भगोले स्फुट एव पात.
इति ॥ २३-२४है ।
 इदानी ग्रहगोले विशेषमाह‌--
 ग्रहस्य गोले कथितापमण्डलं प्रकल्प्य कक्षावलयं यथोदितम् ॥२९॥
 निबध्य शीघ्रप्रतिवृत्तमस्मिन् विमण्डलं तत् पठितैः शरांशैः ।
 मध्योऽत्र पातो द्युसदां ज्ञभृग्वोः स्वशीघ्रकेन्द्रेण युतस्तु देय: ॥२६।
 वा० भा०--भगोल एव तावद्ग्रहगोलः कल्प्यः ॥ तत्र स्फुट एव पातः । अथ यदि
तदन्तर्ग्रहगोलोऽन्यो निबध्यते तदा तत्र यथोक्तं विषुवद्वृत्तं च बध्वा तत् क्रान्तिवृत्तं क क्षा
मण्डलं प्रकल्प्य तत्र छेद्यकोत्तविधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डले गणितागतं
पातं मेषादेविलोमं गणयित्वा तत्र चिह्नं कार्यम् । अथ त्रिज्याव्यासार्धमेवान्यद्वृत्तं राश्यङ्कं
विमण्डलाख्यं कृत्वा तत्रापि मेषादेव्र्यस्तं पाताग्रे चिह्न कृत्वा प्रतिमण्डलविमण्डलयोः पातचिह
प्रथमं संपातं ततो भार्धान्तरे द्वितीयं च संपातं कृत्वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्तरे परम
विक्षेपांशैः पठितै: प्रतिवृत्तादुतरे दक्षिणे च विमण्डलं विन्यस्यम् । तत्र मन्दस्फुटगत्या पार
मार्थिको ग्रहो भ्रमति । अतो मेषादेरनुलोमं मन्दस्फुटो विमण्डले देय । स तत्रस्थः प्रतिमण्ड
लाद्यावतान्तरेण विक्षिसस्तावांस्तत्प्रदेशे विक्षेपः । यतो वृत्तसंपातस्थे ग्रहे विक्षेपाभावः ।
त्रिभेऽन्तरे परमो विक्षेपः । मध्येऽनुपातेन । अतो वृत्तसंपातग्रहयोरन्तरं ज्ञेयम् । तदन्तरं पात-