पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/398

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३५६
 सिद्धान्तशिरोमणौ गोलाध्याय

 इत्यनेनाहुस्तन्मतनिरासार्थ वा स्वशक्त्येत्युक्तम् । परशक्तिकल्पनातः स्वशक्ति कल्पनैव न्याय्येत्याशयः ।

 अस्य पूछे।

 ‘निष्ठ विश्वं च शश्वत्सदनुजमनुजादित्यदैत्य समन्ता” इत्यत्र।

 “कदम्बकुसुमग्रन्थिः केसरप्रकरैरिव' इति दृष्टान्तं वक्ष्यते । भूमेरन्तरिक्षस्थितत्वशक्तिः खस्थगुरुवस्त्वाकर्षणशक्तिश्चेति शक्तिद्वयकल्पना स्यात्तत्र गुरुत्वादेव पतनमिति लोकप्रसिद्धेर्भूमेस्तादृशाकर्षणशक्तिकल्पनामन्तरेणापि तिर्यगधः स्थितानां प्रयतो न संभवतीत्याशयेन वक्ष्यते ।

यो यत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितञ्च ।
स मन्यतेऽतः कुचतुर्थसंस्था मिथश्च ते* तिर्यगिवामनन्ति ॥
अधःशिरस्का:* कुदलान्तरस्थाश्छायामनुष्या इव नीरतीरे।
अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वयं यथात्र ॥

  इति। ‘कीदृक्द्वीपकुलाद्रीन्द्रसमुद्रमुद्रितोच्यतामिति" प्रश्नस्योत्तरं ‘भूमेरर्द्ध क्षारसिन्धोरुदक्स्थमि” त्यादिना वक्ष्यते। समुद्रद्वीपादिपरिमाणानि रोमकादिप्रणीतान्यवगन्तव्यानि । बिष्णु-लिङ्गपुराणे तु वलयाकारो जम्बूद्वीपो लक्षयोजनविस्तृत उत्तः । लक्षयोजनविस्तृतेन क्षारसमुद्रेण वलयाकारेण समन्ताद्वेष्टितः । ततोऽन्यो द्वीपो लक्षद्वययोजनविस्तृतस्ततोऽन्यः समुद्रोऽपि लक्षद्वयविस्तृत उत्तः । एवं द्वितीयद्वीपात्तृतीयद्वीपो द्विगुणश्चतुर्लक्षमितः । चतुर्थद्वीपोऽष्टलक्षयोजनः । पञ्चमः षोडशलक्षमितः । षष्ठो द्वात्रिशल्लक्षयोजनः सप्तमश्चतुःषष्टिलक्षयोजनविस्तृत उत्तः । एवमन्येऽपि समुद्राः पूर्वससुद्राद् द्विगुणा उक्ताः । एवंविधसप्तसमुद्रविस्तारपरिमाणसङ्कलने जातं सप्तविशतिलक्षयुतं लक्षशतम् । समद्वीपपरिमाणसङ्कलनेऽपि जातमेतावदेव । अनयोः सङ्कलने जातं कोटिद्वयं चतुःपञ्चाशल्लक्षयुतम् । जम्बूद्वीपमध्यात्स्वादूदकान्तः समन्तात् कियानिति ज्ञानार्थं जम्बूद्वीपविस्ताराद्धेन पञ्चाशत्सहस्रमितेन हीनं चतुःपञ्चाशल्लक्षयुतं कोटिद्वयं कार्यम् । अत एव पुराणे पठयते ।

कोटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परं ।
पश्चाशच्च सहस्राणि ससट्टीपा ससागरा ॥
ततस्तु काञ्चनी भूमिर्दशकोटयो बरानने ।
देवानां क्रीडनाथाय सत्रसत्वविवजिता ॥

 इत्यप्युक्तम् । अत्र सार्द्धलक्षत्रयोना दशकोटिमितापि काञ्चनभूमिः स्थूलदृष्टया दशकोटिप्रमितैवोतत्याहुः । जम्बूद्वीपमध्याद्भूमिपरिध्यन्तं चतुर्दिक्षु साद्धद्वादशकोटिमितयोजनान्येव भवन्तीति पञ्चाशत्कोटिविस्तीणं भूमण्डलं वदन्ति । -


१. प्र सरै रिति मु० पु०|

२. ये, इति मु० पु० ।

३. शिरस्कमिति क खन्न पु० |