पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/397

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५५
भुवनकोशः

समर्थयन्ते । तेऽप्येतेनैव निरस्ताः । तस्माज्जलं भूमेराधारो न भवतीत्याशयेनाहनान्याधार इति ।

 बौद्धास्तु भूमिः प्रत्यहमधो गच्छतीत्याहुस्तन्मतनिरासार्थमाह-वियति नियतं तिष्ठतीति। बौद्धमतमनूद्याचायेंण दूषितम्।

भपञ्जरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः ।
खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः ।
द्वौ द्वौ रवीन्दू भगणौ च तद्वदकान्तरौ ताबुदयं व्रजेताम्।
यदब्रुवन्नेवमनम्बराद्या ब्रवीम्यतस्तान् प्रतियुक्तियुक्तम् ।
भूः खेऽधः खलु यातीति बुद्धिबौद्ध मुधा कथम् ।
जाता यातं तु दृष्ट्वापि खेऽधः क्षिप्तं गुरुक्षितिम् ॥
कि गण्यं तव वैगुण्यं द्वैगुण्यं यो वृथाकृथा: ।
भार्केन्दूनां विलोक्याह्नि ध्रुवमत्स्यपरिभ्रमम् । इति ॥

 भूमेरधोगमनस्वीकारे स्वीकृतायामपि ताइशाकर्षणशक्ती भग्रहकक्षान्तर्गतत्वकतिचिद्दिवसैर्भकक्षामतीत्याधिकाधो गमनसम्भवेन भवन्मते न स्यात् । ग्रहनक्षत्राणां क्षितिजादुपरि यावत्कालं स्थितिस्तावत्कालमधः प्रायशःस्थित्युपलम्भेन, रात्रौ भचक्रार्द्धदर्शनेन निशामुख-निशान्तयोः सर्वनक्षत्रदर्शनात् सूर्याक्रान्तनक्षत्रोदयात्क्रमेण स्वस्वोदयकालेनोदितसप्तविशतिनक्षत्राणां नाक्षत्रषष्टिघटीषूदयदर्शनात् । सोऽयं रव्यादिको ग्रहस्तदिदमश्विन्यादिनक्षत्रमिति प्रत्यभिज्ञातश्च भार्केन्दूनां द्वैगुण्यमयुक्तम् ।

 मेरोश्चतु:स्तम्भनिभत्वस्वीकारोऽपि ।

 उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिणभागतः |

 इति दूषणेन एकान्तरौ तावुदयं व्रजेतामिति यदुक्तं तदप्ययुक्तम् । किञ्च रसषट्पूलांशविषये मेषादावुदिते सूर्यद्वयं क्रान्तिवृत्तस्थनक्षत्राणां युगलञ्च न दृश्यते तेनापि द्वगुण्यमयुक्तम् ।

 किञ्च चतुर्विशतिसम्मितराशियुक्तक्रान्तिवृत्तस्य गोले निवेशनायोगान्नाडीमण्डलक्रान्तिमण्डलसंपातचतुष्टयासंभवाद् द्वैगुण्यमयुक्तम् । एवमाद्ययुतं प्रलपता बौद्धेन भूमेरधोगमनं स्वीकृतम् तन्निरासार्थमुक्त ‘वियति नियतं तिष्ठतीति।

 ये तु पुराणार्थमजानन्तः पौराणिकम्मन्या भूरधः प्रदेशे शेषकूर्मवराहदिग्ग-; जादिपरम्पराधारधूतेत्याहुस्तन्निरासार्थमाह—स्वशक्त्या तिष्ठतीति ।

 आचार्यं एव ‘मूर्तो धर्त्ता इत्यनेन निराकृरिष्यते । पञ्चमहाभूतमयस्तारागण-| पञ्जरे महीगोलः ॥ खेऽयस्कान्तान्तो लोह इवावस्थितो वृत्त इति वराहेण तारागण- शक्त्या भूमेराकाशस्थितत्वमुक्तम् ।

 केनचित् ध्रुवद्वयशक्त्यान्तरिक्षस्थितत्वमुक्तम् । प्राण्यदृष्टवशेन केचिदन्तरिक्षस्थितत्वम् ॥

 नह्यात्मनां भवति कर्मफलोपभोगः ।

 कायं विनैव स च धारकसव्यपेक्षः ।