पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/394

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५२
सिद्धान्तशिरोमणौ गोलाध्याये

 इदानों चक्रध्रमणव्यवस्थामाह

निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः' पश्यति दक्षिणोत्तरौ ।
तदाश्रितं खे जलयन्त्रवत् तथा भ्रमद्भचक निजमस्तकोपरि ।४८।
उदग्दिर्श याति यथा यथा नरस्तथा तथा खान्नतमृक्षमण्डलम्।
उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः ॥४९
योजनसंख्या भांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः ।।
भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम् ।। ५० ।।

 वा० भा०-उदग्दिर्श याति यथा यथा नर इत्यनेनापसारयोजनैरनुपात: सूचितः । यदि भूपरिधियोजनैश्चक्रांशा लभ्यन्ते तदापसारयोजनैः किमिति । फलमक्षांशा. ॥ यदि चक्रांशमितपरिधिना भूपरिधिर्लभ्यते तदाक्षांशैः किमिति । फलं निरक्षदेशस्वदेशयोरन्तरयोजनानि स्युः । शेषं स्पष्टम् । एवं निरक्षदेशात् क्षितिचतुर्थाशे किल मेरुः । तत्र नवतिः ९० पलांशाः ॥ ४८-५० ।।

 अतस्तत्र ध्रुवक्षसंस्थानमाह---

सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोध्वें।
सव्यापसव्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम् ॥५१॥
वा० भा० - स्पष्टम्।
कृते गोलबन्धे भगोल परिभ्राम्येद शिष्याय दर्शयेत्।। ५१ ।

 वा० वा०-भूमेः पिण्ड इति । भूमिपिण्डः पाञ्चभौतिकः । तत्र भूमिपिण्डे चत्वारो भागाः कल्पिताः । भूभागबहुत्वाद्भूमित्वव्यवहारः । ग्रहाणामेकमार्गगामित्वस्वीकारे भेदयोगसञ्जातबिम्बसंयोगेन परस्परगमनप्रतिबन्धात् मन्दाच्छीघ्रग्रहस्याग्रगामित्वोपलम्भो बाधितः स्यात् ।। सूर्यग्रहणानुभूतलम्बन-नत्युपलम्भश्च बाधितः स्यात् ।

 चक्रादियन्त्रण ग्रतोन्नतांशकला ज्ञात्वा त्रिप्रश्नोक्त्या च ज्ञात्वा तदन्तरेण यदि भूव्यासार्द्धयोजनानि लभ्यन्ते तदा गतिकलाभिः किमिति त्रैराशिकेन ग्रहाणां योज


१. ध्रुवौ यतः पश्यतीति पाठान्तरम् ।

२. अत्र श्रीपतिः

‘याम्योत्तरस्थौ क्षितिजाश्रितौ ध्रुवौ सदैव पश्यन्ति निरक्षदेशजाः ॥'

सि० शे० १५ अ० ५४ शल० ।।
 

३. अत्र श्रीपति:-

‘सौम्यं हि मेषाद्यपमण्डलार्धं पश्यन्त्यमी सव्यगमेव देवाः । तुलादिकं दक्षिणमन्यदर्धं सदैव दैत्यास्त्वपसव्यवत्ति' ।

सि० शे० १५ अ० ५५ श्लो० ।।