पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/392

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५०
सिद्धान्तशिरोमणौ गोलाध्याये



वा० भा० - तस्येलावृतस्य मध्ये कनकरत्नमयो मेरुगिरिः कणिकाकारस्तदेव देवानामालयमु । तत्र मेरावुपरि शिखरत्रयम्। तेषु शिखरेषु मुरारेर्बह्मणः पुरारेश्च पुराणि सन्ति । शिखरणमधः समन्तादिन्द्रादिलोकपालानां पुराणि सन्ति ॥ अथ मेरोविष्कम्भशैला इत्याधारपर्वताः । यस्यां दिशि यमकोटिस्तद्दिकप्रभृतिमन्दरसुगन्धविपुलसुपाश्र्वा दिक्षु सन्ति । मन्दरे कदम्ब. केतुवृक्षश्चैत्ररथं वनमरुणोदं सरः । सुगन्धशैलमस्तके केतुवृक्षो जम्बूः । येनेवं जम्बूद्वीपमुच्यत । नन्दन वन मानस सर: । विपुलशैलमस्तके केतुवृक्षो वटो वृतिर्वन महाह्रद सरः । सुपाश्र्वमस्तके केतुवृक्षः पिप्पलो वैभ्राजं वनं श्वेतोदं सरः । शेषं सुगमम् ॥ ३६ ॥


तत्रान्यं विशेषमाह-- विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्धास्मात् ।
विष्कम्भाचलमस्तकशास्तसर:संगतागता वियता ॥३७॥॥

सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम्।
चक्षुश्च केतुमाल भद्राख्या चोत्तरान् कुरून् याता ।।३८।।॥

याकर्णिताभिलषिता दृष्टा स्पृष्टावगाहता पीता ।
उत्ता स्मृता स्तुता वा पुनाति बहुधापि पापिनः पुरुषान् ॥३९॥॥

याँ चलिते दलिताखिलबन्धो गच्छति वल्गति तत्पतृसङ्घः ।
प्राप्ततटे विजितान्तकदूतो याति नरे निरयात् सुरलोकम् ॥४०॥॥


वा० भा० - -गङ्गां यामीत्युपक्रम कुर्वत्यपि नरे तस्य पितॄणां नरकस्यानां यमपाशबन्धास्त्रुटयन्ति । अथ गच्छति मार्गलग्ने तत्पितरो वल्गन्ति । अस्मत्कुलजो गङ्गां गच्छति । अतोऽस्माकं दुष्कृतकर्मविच्छेदादूर्ध्वगतिर्भविष्यतीति हर्षेणोत्पतन्ति । अथ प्रासतटे गङ्गासन्नस्थिते स्वकुलजे गङ्गाब लेन मुष्टिधातादिभिरन्तकदूतान् जित्वा देवलोक यान्ति। एवंविधाया गङ्गाया मन्दाकिन्याः किमन्यद्वर्ण्यत इत्यर्थः । शेषं स्पष्टम् ॥ ३७-४० ॥

इदानी भारतस्यापि मध्ये नव खण्डानि सप्त कुलाचलाश्चाह—

ऐन्द्र कशेरुशकलं किल ताम्रपणंमन्यद्भांस्तमदतश्व कुमारकाख्यम् ।
नागं च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्षमध्ये' ||४१||॥


१. अत्र श्रीपति:-

'ऐन्द्र कशेरुकमत खलु ताम्रपर्ण खण्ड गभस्तिदमनं च कुमारिकाख्यम् । सौम्यं च नागमथ वारुणनामधेयं गान्धवसंज्ञमिति मारतमेव वर्षे । कुलाचला सस महेन्द्रशुक्तिसह्यक्षेविन्ध्या मलयाचलविच ॥

स पारियात्रोऽत्र च कन्यकाख्ये वर्णव्यवस्था नहि सेतुरत्र ॥'

सि० शे० १५ अ० ४६-४७ श्लो० ॥