पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/385

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३४३
भुवनकोशः


भवत् |यस्मादाद्यतत्त्वात्प रब्रह्मणः क्षुब्धप्रकृतिपुरुषाभ्यां महदादिपरंपरासमुदायोत्पादितब्रह्माण्डजठरगतजगतीतलजजनिताद्विरञ्चेरिदं विश्वमभवत् । शश्वदनवरतम् । तस्य ब्रह्मणोऽवसानेऽन्यो ब्रह्मान्यज्जगदित्यर्थः । अतस्तदाद्यं तत्त्वं जयति ॥ १ ॥

वा० वा०-अथ भुवनकोशो व्याख्यायते-यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यामिति । जयतीत्यनेन नमस्कार अाक्षिप्यते सर्वोत्कृष्टस्यैव नमस्कारो युक्त इति ।

‘भ्रमद्भचक्रचक्रान्तगमने गगनेचरै'रिति प्रश्नस्योत्तरं वक्तुं भूमिः कथमुत्पन्नेति यां काचनप्रक्रियां स्वीकृत्यैवमुत्पन्ना भूमिरिति विष्णुपुराणोत्तप्रक्रिया स्वीकृता। भाष्ये सर्व स्पष्टमुक्तम् ।

सांख्येऽचेतनस्याप्यव्यक्तस्य जगत्कत्तृत्वमुक्तं पुरुषसन्निधानमात्रेण-
अचेतनापि प्रकृति: प्रगाढ़मात्मोपकण्ठे सकल तनोति।
अचेतनं संचलतीव लोहं स्वयं यथा भ्रामकसन्निधाने ॥
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं प्रवर्त्तते तद्वदव्यक्तम् ।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥
‘पुरुषस्तु पुष्करपलाशवन्निलेपः' इत्युक्तञ्च सांख्ये ॥ १ ।। ।।

इदानों भूमेः स्वरूपमाह


भुमि पिण्ड: शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षा
          वृत्तैवृत्तो वृतः सन् मृदनिलसलिलव्योमतेजोमयोऽयम् ।
          नान्याधारः स्वशक्त्यैव वियति नियतं *तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत्
          सदनुजमनुजादित्यदैत्यं
          समन्तात् ॥२॥।।

सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः । कदम्बकुसुमग्रन्थिः केसरप्रसरैरिव ॥३॥।।

वा० भा०-योऽयं मृदनिलसलिलव्योमतेजोमय इति पाञ्चभौतिको भूमेः पिण्डो वृत्तो वर्तुलाकारस्तद्बहिस्थैः शशाङ्कादिकक्षावृत्तैरावृतः सन्ननन्याधारः स्वशक्तयैव नियतं निश्चितं वियत्याकाशे तिष्ठति । तत्पृष्ठनिष्ठं च जगत् ॥ सदनुजमनुजादित्यदैत्यम् । दनुजा दानवाः ।

१. अत्र लल्ल:- सलिले विलयो मृदो भवेदिति गोरप्सु न युज्यते स्थितिः ॥ अथ पात्रगतेति तत् कथं न भवेद्यावदिलैव पाथिवम् । यदि वाम्भसि संस्थिता मही सलिलं तद्द्युवदप्रतिष्ठितम् । गुरुणोऽम्भसि चेत् स्थितिर्भवेत् क्षितिगोलस्य न किं विहायसि । शिा० to गो० मिथ्या० ই ২-১৫০ হাতীo