पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/384

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३४२
सिद्धान्तशिरोमणौ गोलाध्यायें


वा० भा०-जयति सर्वोत्कर्षण वर्तते। कि तत्। परं ब्रह्म । आदितत्वं यत्। किविशिष्टम् । यस्मात् क्षुब्*प्रकृतिपुरुषाभ्यां सकाशान्महानभूत् । महतो गर्भेऽहंकारोऽभूदित्यादि ॥ अत्रैतदुक्तं भवति । साङ्खयादियोगशास्त्रेषु श्रुतिपुराणेषु चादिसर्गे यथोदितं तदत्रोच्यते ॥ तत्र प्रकृतिर्नामाव्यक्तभव्याकृतं गुणसाम्यं कारणमित्यादयः प्रकृतेः पर्यायाः ॥ तस्याः प्रकृतेरन्त, भगवान् सर्वव्यापकः पुरुषोऽस्ति । सत्त्वं रजस्तम इति सर्वे गुणास्तुल्या एव सन्ति । अत एव तद्गुणसाम्यम् । तथा प्राकृतिके पूर्वे प्रलये लीनस्तत्राव्यक्तो व्यापकः कालोऽप्यस्ति । यदा च भगवान् वासुदेवः परब्रह्माख्यः सिसृक्षुर्भवति तदा तस्मात् सं कर्षणाख्योंऽशो निगत्य प्रकृतिपुरुषयोः सन्निधिस्थयोः क्षोभं जनयति ॥ ताभ्यां क्षुब्धाभ्यां महानभूत् ॥ महान् वै बुद्धिलक्षण इति । तन्महत्तत्त्वं बुद्धितत्त्वं चोच्यते । यन्महत्तत्त्वं स प्रद्युम्ननामा भगवतोंऽशः । तस्य महत्तत्त्वस्य विकुर्वाणस्य गर्भेऽहंकारोऽभूत् । सोऽनिरुद्धनामा । त एते वासुदेवसंकर्षणप्रद्युम्नानिरुद्धा इति मूतभेदा वैष्णवागमे विशेषतः प्रसिद्धाः । सोऽहंकारो गुणवशेन त्रिधाभवत् । यः सात्विकः स वैकारिकः ।। · यो राजसः स तैजसः । यस्तामसः स भूतादिः । यथोक्ततं विष्णुपुराणे---

वैकारिकस्तैजसश्च भूतादिश्चेंव तामसः ।
त्रिविधोऽयमहंकारो महत्तत्त्वादजायत । ।॥

तत्र यस्तामसोऽहंकारः स भूतादिः । तस्मात् पञ्चमहाभूतान्यभवन् । कानि तानि भूतानि । खकशिखिजलोव्र्यः- ॥ खमाकाशम् ॥ को वायुः ॥ शिखी अग्निः ॥ जलमुदकम् ॥ उर्वी पृथ्वी । एतानि भूतानि स्वस्वगुणपूर्वकाण्यभूवन् । शब्दस्पर्शरूपरसगन्धा इत्याकाशादीनां मुख्यगुणाः । तत्राहंकाराच्छब्दतन्मात्रम् । गुणस्यातिसूक्ष्मरूपावस्थानं तन्मात्रशब्देनोच्यते । शब्दतन्मात्रादाकाशम् । आकाशात् स्पर्शतन्मात्रम् । तस्माद्वायुः । वायो रूपतन्मात्रम् । तस्मात् तेजः । तेजसो रसतन्मात्रम् । तस्माज्जलम् । जलाद्गन्धतन्मात्रम् । ततः पृथ्वी । एवमाकाशादीन्येकोत्तरगुणान्यभवन् । अथ च तेषां गुणानां शब्दादीनां ग्राहकाणीन्द्रियाणि । श्रोत्र त्वक चक्षुषी जिह्वा नासिका चेति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादगुदमेढ़ाणीति पञ्च कर्मेन्द्रियाणि । अथोभयात्मक मनः । न हीन्द्रियें: स्वातन्त्र्येण गुणग्रहणं कतुं शक्यते । अतस्तदधिष्ठातारो देवाः ।


दिग्वाताकप्रचेतोऽश्विवन्हीन्द्रोपेन्द्रमित्रकाः । ॥॥

इति । श्रोत्रेन्द्रियस्य दिशः । त्वचो वायुः । चक्षुषोरर्कः ॥ जिह्वाया वरुणः । नासिकयोरश्विनौ ॥ तथा वाचोऽग्निः । बाह्वोरिन्द्रः ॥ पादयोविष्णुः । गुदस्य मित्रः । मेढ़स्य प्रजापतिः । मनसश्चन्द्रः । इतीन्द्रियाधिदेवताः ॥ तत्र यानीन्द्रियाणि तानि तैजसादहंकारात् ।। ये देवास्ते वैकरिकादभवन् । यथोक्त विष्णुपुराणे

तैजसादिन्द्रियाण्याहुर्देवा वैकारिकाद्दश .
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥॥

इति । ततः संहतेश्च ब्रह्माण्डम् ॥ एवमुत्पन्नानां तत्त्वानां समुदायात् पूर्वं प्राकृतिकप्रलयमिलितसकलजलधिजले बुद्बुदाकारं ब्रह्माण्डमभवत् । तज्जठरे पद्माकारा मही । तत्र कणिका कारो मेरुस्तत्पृष्ठनिष्ठश्चतुर्ववनः कमलोद्भवस्तस्मात् सदनुजमनुजादित्यदैत्यं विश्वम