पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/379

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३७
गोलस्वरूपप्रशनाध्यायः


लम्बनं बत किं का च नतिमतिमतां वर।
तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः ॥९॥।

 वा० भा० - अत्र किल प्रष्टुरयमभिप्रायः । चन्द्रग्रहणे भूभा ग्रहणकत्रों। पौर्णमास्यन्ते भूभेन्द्वोस्तुल्यत्वाद्युतिर्भवितुमर्हति ॥ एवं सूर्यग्रहे चन्द्रश्छादकः । दशन्तेि तयोस्तुल्यत्वाद्योगेन भवितव्यम् । अत उत्तम् 'तिथ्यन्ते चेद्ग्रह उडुपतेः कि न भानोस्तदानीमिति ॥' बत अहो गणक लम्बनं नाम किं नतिश्च का । तत्संस्कृतिस्तिथौ बाणे च किम् । लम्बनेन तिथिः संस्क्रियते नत्य किं बाणश्च ॥ तथान्यः प्रश्नः ॥ ते सिद्धे कुतः कुत इति । ते लम्बनावती कुतो हेतोः कुतः पृथिव्याः साञ्चिते ॥ भूव्यासार्धेन साधिते इत्यर्थः । तथेन्दोः प्राच्यां दिशि स्पर्शः । कि रवेः प्रतीच्यामित्यादि सर्वं वद ॥ ८-९ ।।

अथ श्रृङ्गोन्नतौ चन्द्रशुक्लस्य क्षयवृद्धिप्रश्नमाह

शुक्लस्य द्विजराज एष महसो हान्या कुवृत्तः कुतः
सद्वृत्तत्वगतोऽप्यही भ्रमभवादोषातिसङ्गादिव ।
संप्राप्याथ पुनस्त्रयीतनुमतस्तस्याश्रयेणेंव किं
शुक्लस्य क्रमशस्तथैव महसो वृद्धयैति सद्वृत्तताम् ।।१०।।।

 वा० भा० - अहो गणक एष द्विजराजश्वन्द्रः सद्वृत्तत्वं गतोऽपि पौर्णमास्यां सुवर्तुलतां प्रासोऽपि कुतो हेतोः कुवृत्तः कुवर्तुलो भवति । भ्रमभवाद्दोषातिसङ्गादिव ॥ दोषा रात्रिः. तथा. पौर्णमास्यां सकलया सकलस्यापि चन्द्रस्य यः सङ्गः सोऽतिसङ्गः । तत्सङ्गानन्तरं शुक्लस्य तेजसो हानि याति । तया हान्या कुवृत्तः कुत्सितवृत्तः स्यादितीव प्रतिभाति । यथा द्विजराजो ब्राह्मणोऽपि सद्वृत्तत्वं सदाचारत्वं गतोऽपि भ्रमभवाच्चितचलनसंभवाद्दोषातिसज्ञात् पापातिसङ्गाच्छुक्लस्य शुद्धस्य तेजसो हानि याति । तया कुत्सितवृत्तः स्यात् । अथ पुनस्त्रयीतनुमादित्यं प्राप्य ततोऽनन्तरं शुक्लस्य तेजसो वृद्धया तथेव सद्वृत्ततां सुवर्तुलतां प्राप्नोति । तस्य भगवतस्त्रयीतनोराश्रयेणैव । यथा कुवृत्तो ब्राह्मणस्त्रयीतनुं त्रैविद्यं पर्षत्त्रैविद्यमेव वेति स्मृत्युक्तं पर्षद्रूपमन्यं ब्राह्मणं प्राप्य तेन कृतानुग्रहस्तेजोवृद्धि तथा पुनः सुवृत्ततामेतीत्यर्थान्तरम्। १० ॥

 इति सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे गोलाध्याये गोलस्वरूपप्रश्नाध्यायः ।

 वा० वा०-अथ शिष्यबुद्धयनुकूलनाय गोलस्वरूपप्रश्नाध्यायमारभते । तत्र । भूसंस्थानप्रश्न श्लोकद्वयेनाह-भ्रमद्धचक्रेति, किमाकारेति ।  अत्र भाष्यम् ॥ इयं भूर्गगनेचरैर्वृता केन धृता सती गगने परितो वर्त्तमानेऽधो नेयात् न गच्छेत् । कथमियं गगने स्थितेत्यवगतं ? यतो भ्रमद्भचक्रचक्रान्तर्वर्तते । भानां चक्र समूह:। भचक्रमेव चक्र भचक्रचक्रम् ।

 यदि भूमेर्मूर्ताधारपरम्पराङ्गीक्रियते तदा समन्ताद्वत्र्तमानध ।(घ) नभचक्रस्याधारे स्खलितस्य भ्रमणं नोपपद्यत इत्यर्थः । भूमिराधारधृता तथाविधप्रयत्नाभावे

 सि० -४३