इदानीं गणितप्रशंसामाह
जोथिष्यषत्रम् पुराणगणकैरादेश इत्युच्यते |
वा० भा० - स्पष्टार्थम्। ६ ।
वा० वा०-गणितप्रशंसासाह-ज्योतिशास्त्रफलमिति। भूतभविष्यद्वर्तमानशुभाशुभनिरूपणमादेशः । जातकविवाह-यात्रोपनयनादिकालफल होरया लग्नेन शास्तीति होराशास्त्रम् । होरास्कन्धरूपज्योतिश्शास्त्रादेशो लग्नबलाश्रितः। लग्नाद् । ग्रहसंस्थानेन शुभेन लग्नबल भवति । स्पष्टखेटाश्रयमित्यादि स्पष्टम् ।
ननु होराशास्त्राध्ययनफल-*मादेशस्यासत्यत्वदर्शनेन “नानृतं वदेदिति” श्रुत्या प्रतिषिद्धमिति होराशास्त्राध्ययनानर्थक्यं श्येनवत् । यथा ‘‘श्येने°नाभिचरन् यजेत” इत्यत्र वैरिबधकामनया श्येनयागो विहितः। तस्य हिंसा फल ‘न हिंस्यात् सर्वाभूतानीति निषिद्धम्। तेन फलद्वारा श्येनस्यानर्थक्यं तथात्रापि प्राप्तिपूर्वकत्वान्निषेधस्य यज्ञाङ्गहेिसाया विहितत्वेन विधिस्पृष्टे निषेधानवकाशाद्रागतः प्राप्ता हिसैव एतस्य विषयः । वैरिवधार्थं श्येन उपाय उक्तो, वेदेन श्येनयागे रागादेव पुरुषप्रवृत्तिः । यागाङ्गे प्रवृत्तिर्वेधी तेन महद्वैषम्यम् ।
तस्माज्ज्योतिश्शास्त्राध्ययनं व्यर्थम् । होरादिशास्त्रप्रणेतॄणां परस्परविरुद्धार्थाभिधायित्वाच्च । अायुर्दायानयनप्रकाराणामानन्त्यान्न * कोऽपि प्रकारः संवदति । शुभाशुभफलव्यञ्जकानां होराशाकुनसंहितास्वरचूड़ामणिसामुद्रिककुमारकौशलमेव मालास्वप्ननिमित्तादिप्रतिपादकशास्त्राणामव्यवस्थितानां प्रामाण्यमप्यशक्यं वक्तुं तेन होराशाखास्कन्धयोरध्ययनमनर्थकमिति चेत् । उच्यते । वेदमूलकत्वात्स्मृतीनामिति ज्योतिश्शास्त्रस्मृतिः प्रमाणम् । पुरुषस्य प्रवृत्त्यर्थं निवृत्त्यर्थं च प्रत्यक्षादिभिः प्रतिपतुमशक्यस्य हि फलस्याग्निहोत्रादे, अहितफलस्य ब्रह्मवधादेः प्रतिपादनार्था वेदाः । तथाहुः--
{{c|प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्धयते {{c|एवं विदन्ति वेदेन तस्माद्वेदस्य वेदता, इति ॥ {{c|तत्प्रामाण्यमीश्वरप्रणीतत्त्वेनेति ताकिका निश्चिन्वते । सर्वज्ञप्रणीता वेदाः वेदत्वात् । न यदेवं न तदेवमित्यनुमानमीश्वरप्रणीतत्त्वे प्रमाणम् । श्रुतिश्च
१. 'फलमादेशस्तस्यासत्यत्व' । ३. भानन्त्यं न को इति क पु० ।