पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/372

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३०
सिद्धान्तशिरोमणौ गोलाध्याये


इदानी गोलप्रशंसया गोलानभिज्ञगणकोपहासं श्लोकद्वयेनाह

'भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविवर्जितं च
सभा न भातीव सुवक्तूद्दीना गोलानभिज्ञो गणकस्तथात्र । ३ ।।

वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां
जल्पन्नल्पमतिः स्मयात् पडुबडुभ्रूभङ्गवक्रोक्तिभिः ।
हीणः सन्नुपहासमेत गणको गोलानभिज्ञस्तथा
ज्योतिर्वित्सदसि प्रगल्भगणकप्रशनप्रपञ्चोक्तिभिः२ ॥ ४ ॥

वा० भा०-स्पष्टार्थम्। ३-४ ।

वा० भा० गोलप्रशंसार्थ गोलानभिज्ञदूषणमाह-भोज्यमिति। वादी व्याकरणमिति। नहि निन्दानिन्दितुं प्रवर्त्तते । किन्तु विधेयं स्तोतुमिति न्यायेन श्लोकद्वयमुक्तम् ३-४ ।।

अथ गोलस्वरूपमाह—

अदृष्टान्त एवावनिभग्रहाणा संस्थानमानप्रतिपादनार्थम्।
गोलः स्मृतः क्षेत्रविशेष एष प्राज्ञैरतः स्याद्गणितेन गम्यः ।। ५ ।।

वा० भा०-स्पष्टार्थम्। ५ ।

वा० वा०-अथगोलस्वरूपमाह- दृष्टान्त एवेति । गोल: क्षेत्रविशेष एव । दृष्टान्तोऽवनि-भ-ग्रहाणां संस्थानमानप्रतिपादनार्थम्। गोलदृष्टान्तेन निखिलग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादनाद् ग्रन्थस्यापि गोलाभिधेयता । क्षेत्रविशेषो गणितगम्य एव भवति ॥ ५ ।।

१. अत्र श्रीपति:-

यद्वदिन्दुरहिता न शर्वरी भाति शीलरहिता न चाङ्गना । ब्राह्मणश्च न चरित्रवजितस्तद्वदेव गणको ह्यगोलवित् ( सि० शे०.१५ अ, २ श्लो० ) लल्लोऽपि - - - शशधरकिरणैविना प्रदोषः कुचरहितं ललनाजनस्य वक्षः । मधुररसविवर्जितञ्च भोज्यं न किमपि गोलविवजित च तन्त्रम् । - शि० धीवृ० १५ अ० २ श्लो० ।

२. अत्र श्रीपतिः- -

अविदितपदलक्ष्यो बावदूकोऽपि यातश्चतुरबुधसभायां यद्वदायाति हास्यम्। ग्रहगणितविदेवं गोलतत्त्वानभिज्ञो ग्,णकसदसि विद्वच्चक्रवक्रोक्तिदीनः । सि० शे० गो० १५ अ० ३ श्लो० ।

३. अत्र श्रीपतिः- - ग्रहनक्षत्रधरित्री संस्थानस्येह दर्शनोपायः ॥ गोल इति कथ्यतेऽसौ क्षेत्रविशेषो गणितगम्यः । सि० शे० गो० १५ अ० ६ श्लो० ।।