पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/353

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ पाताधिकारः


  अथ पाताध्यायो व्याख्यायते । तत्रादौ तदारम्भप्रयोजनमाह--

भावाभावे गर्तेष्यत्वे पातस्य विदुषां भ्रमः ।
पूर्वेषां यत्र वक्ष्येऽहं तत्साधनमपि स्फुटम् ॥१।।

  वा० भा०--स्पष्टम्। १ ।।

  थार्कस्य गोलायनसन्धिप्रतिपादनार्थमाह--

चक्रे १२ चक्रार्धे ६ च व्ययनांशेऽर्कस्य गोलसन्धिः स्यात् ।
एवं त्रिभे च ३ नवभे ९ ऽयनसन्धिव्ययनभागेऽस्य ॥२॥

  वा० भा० -चक्र राशिद्वादशके १२ चक्रार्धे राशिषट्के ६ । किंविशिष्टे । व्ययनांशे । अयनांशैविरहिते। तत्र किम्। अकस्य गोंलसन्धिः । तद्यथा । यदा किलेकादश ११ अयनांशास्तदा गोलसन्धिः १३ । ६ । यदैतावान् रविर्भवति तदा क्रान्तेरभावाद्गोलसन्धी वर्तते। विषुवन्मण्डलस्थ इत्यर्थ:। एवं त्रिभे राशित्रये नवभे राशिनवके। अयनांशैरूनिते। तत्र किम्। अर्कस्यायनसन्धिः ॥ १६ यदैतावान् रविस्तदायनसन्धौ वर्तते ।

  अत्रोपपत्ति.--अत्र किल क्रान्तिमण्डलस्य मेषादेः पश्चिमतोऽयनांशतुल्येऽन्तरे विषुवन्मण्डलेन सह संपातः । अमुमर्थ गोले वक्ष्ये। तत्रस्थो रविगलिसन्धी । विषुवन्मण्डले हि याम्योत्तरगोलविभागयोः सन्धिः ॥ एवं तस्मात् संपातादग्रतस्त्रिभेऽन्तर उत्तरा परमा क्रान्तिः ॥ तत्रस्थो रविरयनसन्धौ वर्तते । ततो हि दक्षिणगमने प्रवृत्तिः ।। रग्वं पृष्ठतोऽपि त्रिभेऽन्तरे परमा याम्या क्रान्तिः । ततश्चोत्तरगमप्रवृत्तिरित्युपपन्नमत्रायनसन्धित्वम् ।

  अथ समायां भूमावभीष्टककंटकेन वृत्तमालिख्य तिच्चक्रकलाडूितं ध्रुवविलोकनादिना सम्यग्दिगङ्कितं च कृत्वा दिङ्मध्य ऋजुः सूक्ष्मः कीलकश्च निवेश्यः । प्रातः पश्चिमभागस्थो द्रष्टा करकलितावलम्बकसूत्रेण तेन च कीलकेन प्रत्यहमधोंदितमादित्यं विद्धवा त्रिज्यावृत्तस्य प्राग्विभागे तत्र तत्र चिह्वानि कुर्यात्। एवं विध्यता यस्मिन् दिने सम्यक् प्राच्यां रविरुदितो दृष्टस्तद्विषुवद्दिनम् । तस्मिन् दिने गणितेन स्फुटो रविः कार्यः । तस्य रवेर्मेषादेश्च यदन्तरं तेऽयनांशा ज्ञेयाः । एवमुत्तरगमने सति । दक्षिणे तु तस्यार्कस्य लुलादेश्चान्तरमयनांशाः । एवं प्रतिदिनवेधेनोत्तरां परमां काष्ठां प्राप्य यस्मिन् दिने दक्षिणत उच्चलन् दृष्टस्तदयनं दिनम् । ततः प्रभृति दक्षिणगमनम् । तस्मिश्च दिने गणितेन रविः स्फुटः कार्यः । तस्य त्रिभेण सहान्तरेऽपि तावन्त एवायनांशा भवन्ति । एवं दक्षिणां परमां काष्ठां प्राप्य निवृत्तो दृष्टस्तदुत्तरायणं दिनम् । ततः प्रभृत्युत्तरगमनमित्यर्थः । एवं चन्द्रस्यापि गोलायनसन्धयो वेघेन वेद्याः ॥ २ ॥