पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/354

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०९
पाताधिकार:


अथ चन्द्रस्य विशेषमार्याचतुष्टयेनाह--
अयनांशोनिपाताद्दोःकोष्टिज्ये लघुज्यकोत्थे ये ।
ते गुणसूर्यैः १२३ अश्वैः ७ गुणिते भक्तके कृतैः ४ सूर्यैः १२ ।।३।।
अयनांशोनितपाते मृगकक्र्यादिस्थिते द्विषड्रामैः ३६२ ।।
कोटिफलयुतविहीनैबाहुफर्ल भक्तमाप्तांशैः ॥४॥
मेषादिस्थे गोलायनसन्धी भास्करस्योनौ ।
तौ चन्द्रस्य स्यातां तुलादिषड्भस्थिते तु संयुक्तौ ॥५॥
गोलायनसन्ध्यन्तं पदं विधोरत्र धीमता ज्ञेयम् ।
रविगोलवदस्पष्टा स्पष्टा क्रान्तिः स्वगोलदिक् शशिनः ।। ६ ।।

 वा० भा०--यस्मिन् काले क्रान्तिसाम्यमन्वेष्यं तदा कस्मिश्चित् तदासन्नतमदिने स्फुटौ चन्द्राकीं पातश्च कार्यः । एवं कृते सति सूत्रावतारः । तस्य पातस्यायनांशेविश्वजितस्य लघुज्यकाभी रूपाश्विनो विशतिरङ्कचन्द्रा इत्यादिना दोज्र्या कोटिज्या च कार्या । तत्र दोज्र्या गुणसूर्यस्त्रयोविशतियुतशतेन गुण्या । कोटिज्या तु सप्तभिर्गुण्या । ततो दोज्र्या चतुभिभाज्या । कोटिज्या तु द्वादशभिः । एवं भुजफलकोटिफले भवतः ॥ ततो द्विषड्रामैः कोटिफलयुतविहीनैः । कथमित्याह । अयनांशोनितपाते मृगकक्र्यादिस्थिते। यदायनांशोनितपातो मृगादौ वर्तते तदा कोटिफलयुतैः कक्र्यादौ तु कोटिफलविहीनैस्तैर्वाहुफलं भाज्यम् । फलमंशाद्य ग्राह्यम्। तस्मिन्नयनांशोनितपाते मेषादिषट्के वर्तमाने तैरासभागैरादित्यस्य गोलायनसन्धी ऊनीकृतौ चन्द्रस्य भवतः । तुलादिषट्के तु तैर्भागैर्युतौ सन्तौ भवतः ॥ यदाद्यगोलसन्धेः सकाशादयनसन्धिं यावत् त्रिगृहं तत् प्रथमं पदमुच्यते ॥ ततोऽन्यत् त्रिभं द्वितीयगोलसन्ध्यन्तं द्वितीयपदम् । एवं तृतीयचतुर्थे ॥ तथा यदेन्दोः क्रान्तिः साध्यते तदा किल रविवत् ॥ तथा सिद्धायाः क्रान्ते रविगोलवशेन दिक्कल्पना । न स्वगोलवशेन । ततः शरेण संस्कृता सती स्वगोलदिग्भविष्यतीति बालोऽपि जानाति ।

 अत्रोपपत्तिः--अत्रार्कगोलायनसन्धिभ्यामन्यौ चन्द्रस्य यत् कथितौ तत्र कारणमुच्यते ॥ रवेः किलापमण्डलविषुवन्मण्डलसंपाते गोलसन्धिः । विधोस्तु विषुवन्मण्डलविमण्डलसंपाते ॥ यतोऽसौ विमण्डले भ्रमति । तत्संपातस्थ एव प्राच्यामुदेति । तत्रस्थस्य विधोः क्रान्तिः स्फुटेन शरेण संस्कृता सती शून्यं भवतीत्यर्थः । तदग्रतः पृष्ठतश्च त्रिभेऽन्तरे स्फुटा परमा क्रान्तिः ॥ तत्रस्थो हि शशी यथासंख्यमुत्तरां याम्यां च परमां काष्ठां प्राप्य निवर्तते । अतस्तावेवायनसन्धी चन्द्रस्येत्युपपन्नम् ।

  अत्रादौ तावदुदाहरणमुक्तत्वा गोलोपरि प्रदश्र्यते ।तत्तूदाहरणं प्रश्नाध्याये |तद्यथा-
  युक्तायनांशोंऽशशतं १०० शशी चेदशीति ८० रकीं द्विशती २०० विपातः ।
  चन्द्रस्तदानीं वद पातमाशु धीवृद्धिदं त्वं यदि बोबुधीषि।