पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/299

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५४
सिद्धान्तशिरोमणी ग्रहगणिते

 वा० भा०-मध्यग्रहणकाले ग्रहस्य त्रिप्रश्नोक्त्या शङ्कः साध्यः ॥ स शङ्कस्त्रिज्यया भक्तः । फलं सार्धद्वियुक्तमङ्गुललिसिका भवन्ति । अथवोन्नतघटिका ग्रहस्य दिनार्धघटीभिर्भक्ताः फलं सार्धद्वियुक्त सुखार्थ स्थूला अङ्गुललिसिका भवन्ति ।

 अथ्रोपपत्तिहि -- गगनमध्यस्थं यद्ग्रहबिम्बं तस्य निखिलकरनिकरपिहितपरिधित्वात् किंचित् सूक्ष्म दृश्यते। अथोदये क्षितिजस्थ भूव्यवहिततत्करनिकरं विशालमिव प्रतिभाति' । तत् सूक्ष्मत्वं विशालत्वं चोपलब्ध्या बुद्धिमद्भिः कल्पितम् । तच्च गगनमध्ये सार्धत्रिकलं ३ ॥ ३० । उदये सार्धद्विकल २ । ३० अङ्गुल कल्पितम्। अवान्तरेऽनुपातेन । यदि त्रिज्यातुल्ये शङ्कावङ्गुललिसान्तरं रूपं १ लभ्यते तदेष्टेन किमिति । फलं सार्धद्वियुक्तमङ्गुललिसिकाः स्युरित्युपपन्नम् । अथवा स्थूलोऽनुपातः । यदि दिनार्धतुल्याभिरुन्नतघटिकाभी रूपं* लभ्यते तदेष्टभिः किमिति ॥ २४ ।

 इदानी वलनादीनामङ्गुलीकरणमाह -

आभिर्विभक्ता वलनेषुबिम्बदोश्छन्नलिप्ता स्युरथाङ्गुलानि ।
शरा यथाशा ग्रहणे खराशोश्चन्द्रग्रहे व्यस्तदिशस्तु वेद्याः ।। २९ ॥

 वा० भा०—आभिरङ्गुलकलाभिर्वलनविक्षेपबिम्बच्छन्नभुजकोटिकर्णा भजय: । फलान्यङ्गुलानि भवन्ति । इह रविग्रहणे शरा यथागतदिश एव । चन्द्रग्रहणे तु व्यस्तदिशो ३तव्य: ।

 अत्रोपपत्तिः-अङ्गुलकरणे तु कथितैव । शराग्रे हि चन्द्रः शरमूले भूभाऽतश्चन्द्रविक्षपादन्यदिशि भूभा वर्तते । तत्स्थानज्ञानार्थं चन्द्रग्रहणे व्यस्तदिशः शरा वेद्या इत्युपपन्नम् ॥ २५ ।

 इदानी परिलेखमाह--

ग्राह्यार्धसूत्रण विधाय वृत्तं मानैक्यखण्डेन च साधिताशम् ।
बाह्येऽत्र वृत्ते वलनं ज्यकावत् प्राक्चह्वतः स्पर्शभवं हिमांशोः ॥२६॥
सव्यापसव्यं खलु याम्यसौम्यं मौक्ष तदा पश्चिमतश्व देयम्।
रविग्रहे पश्चिमपूर्वतस्ते विक्षेपदिक्चह्वत एव माध्यम् ॥ २७ ।।
सूत्राणि केन्द्राद्वलनाग्रसत्तान्यङ्कयान्यतः स्पर्शविमुक्तिबाणौ ।
ज्यावन्निजाभ्यां वलनाग्रकाभ्यां देयौ यथाशावथ मध्यबाणः ॥२८॥


१. अत्र श्रीपति: -

द्रटा महीव्यासदलेन यस्मात् समुच्छितस्तिष्ठति भूमिपूछे।
नभस्थभानोर्निकटस्ततस्तं प्रभाकरं सूक्ष्ममवेक्षतेऽसौ ॥
पिधीयते भानुवपुर्मयूखै: समन्ततः पङ्कजकणिकेव।
तत्केसरैरम्बरमध्यवर्ती निरीक्ष्यते तेन च सूक्ष्ममूर्तिः ।
वसुन्धरागोलनिरुद्धधामा दूरस्थितोऽयं सुखदृश्यबिम्बः ।
महीजवृत्तोपगतो विवस्वानतो महानू भात्यरुणो विरश्मिः ॥