पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/300

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



२५५
चन्द्रग्रहणाधिकारः


केन्द्रात् प्रदेयो वलनस्य सूत्रे' तेभ्यः पृथग्ग्राहकखण्डकेन ।
वृत्तैः कृतैः स्पर्शविमुक्तिमध्यग्रासाः क्रमेणेवमिहावगम्याः ॥ २९ ।।

 वा० भा०--समायामवनौ ग्राह्यार्धप्रमाणेन सूत्रेणेटस्थानकल्पितबिन्दोवृत्त लिखित्वा तस्मादेव बिन्दोमनैक्यखण्डप्रमाणेन सूत्रेणान्यद्वृत्तं कृत्वा तस्य बिन्दोरुपरि प्राच्यपरं याम्योत्तरं च सूत्रं खटिकाया रजसोच्छाद्य रेखे कायें । अथ मान्क्यार्धवृत्ते वलनं देयम् । तत्र चन्द्रस्य स्पाशिर्क प्राचीचिह्मतो, मौक्षिक प्रतीचीचिहुतः । रवेस्तु स्पाशिर्क प्रतीचीचिह्मान्मौक्षिक प्राचीचिहुतः । अथ मध्यवलनं यदि विक्षेपो दक्षिणतो देयस्तदा दक्षिणचिहाद्यदोत्तरतस्तदोत्तरचिह्नेत् । तत् कथं देयमित्याह । सव्यापसव्यं खलु याम्यसौम्यमिति । यदि याम्यं वलनं तदा सव्यक्रमेण प्राचीचिहुाद्याम्यं दक्षिणचिह्मात् पश्चिमं पश्चिमचिह्मादुतरमुत्तरचिहुातू पूर्वमिति सव्यम् ॥ इतोऽन्यथापसव्यम् । तच्व वलनं ज्यावद्देयं न धनुर्वत् ॥ एवं वलनानि दत्वा केन्द्राद्वलनाग्रगतानि सूत्राण्यडूयानि । अथ स्पर्शवलनाग्रात् स्पाशिको मोक्षावलनाग्रान्मौक्षिको विक्षेपो देयः स च ज्यावत् । अथ मुध्यविक्षेपः केन्द्राद्वलनसूत्रे देयः । तेभ्यः शराग्रचिह्रोभ्यो ग्राहकार्धप्रमाणेन सूत्रेण वृत्तान्युत्पाद्य स्पर्शमुक्तिमध्यग्रासा वेदितव्याः ।

 अत्र वासना । मानैक्यार्धवृत्ते ग्राहकवृत्तस्य मध्यं यदा मवति तदा ग्राह्यग्राहकयो बिम्बप्रान्तौ संलग्नौ भवतोऽतो मानैक्यार्धवृत्तं बहिलिखितं तच्च दिगङ्कितं तत्र या प्राची सा सममण्डलप्राची । ततस्तस्या वलने दत्ते या केन्द्राद्वलनाग्रगा रेखा सा क्रान्तिवृत्तप्राची । एवं सर्वदिशां वलनम् । अथ वलनसूत्राज्ज्यावद्विक्षेपः । यतः क्रान्तिवृत्तप्राच्या विक्षेपो याम्योत्तरः । एवं स्पर्शमोक्षयोः किल । अथ मध्यशरः केन्द्राद्वलनसूत्रेऽतो दत्तो यतो मध्यवलनं नाम तत्कालक्रान्तिवृत्तप्राच्या याम्योत्तरा दिक् । विक्षेपाग्रे ग्राहकवृतमध्यमतस्तत्र कृतैवृते: स्पर्शमोक्षमध्या भवन्तीत्युपपन्नम् ॥ २६-२९ ॥

 दानी निमीलनोन्मीलनेष्टग्रासपरिलेखमाह -

केन्द्रादूद्भुजं स्वे वलनस्य सूत्र शरं भुजाग्राच्छ्रवणं च केन्द्रात् ।
प्रसार्य कोटिश्रुतियोगचिहाद्वृत्ते कृते ग्राहकखण्डकेन ॥ ३० ।
संमीलनोन्मीलनकेटकालग्रासाश्व वेद्या यदि वान्यथामी ।

 वा० भा०-संमीलनकाले वलनमानीय तत् प्राकूचिह्मतः प्रागग्वद्दत्वा केन्द्राद्वलनाग्रगां रेखां कृत्वा तस्यां रेखायां केन्द्रात् पूर्वतो भुजो देयः । भुजाग्रात् तत्कालशरप्रमाणां शलाकां तथा केन्द्रात् कर्णमितां च प्रसार्य शलाकाप्रयोधुंतिचिन्हाद्ग्राहकार्धेन वृत्तं विलिख्य संमीलनस्थानं ज्ञेयम् । एवमुन्मीलनवलनं पश्चिमतो दत्त्वोन्मीलनस्थानं ज्ञेयम् । एवमेव तत्कालवलनमिष्टवशेन प्राक् पश्चिमतो वा दत्त्वोक्तवदिष्टग्रासो ज्ञेयः । यदि वान्यथामीत्यग्रे सम्बन्धः ।  अत्रोपपत्तिः -भुजो हि ग्राहकमार्गखण्डम् । तत्र शरः कोटिस्तद्वर्गयोगपदं कर्णः । कर्णाग्राद्माहकबिम्बे लिखिते संमीलनादिको भवतीति युक्तमुक्तम्। ननु ग्राह्मबिम्बमध्याद्वलनसूत्रे भुजो


१. वलनाग्रसूत्रे । इति पाठान्तरम् ।