पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/291

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४६
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० भा०-इटग्रासेनोनस्य मानैक्यार्धस्य वर्गात् तत्कालविक्षपवर्गेणोनान्मूलं गत्यन्त
रांशेविभजेत् । फलेन स्पशस्थित्यध हीन यदि स्पाशिको ग्रासः । यदि मौक्षिकस्तदा मौक्षिक
हीनम् । शेषमिष्टकालो भवति । स च स्थूलः ।

 अथ तत्कालशरेण य आानीयते स सूक्ष्मासन्नः ॥ एवमसकृत् स्फुटः स्यात् ॥ अमुमिष्ट
कालमग्रे परिलेखादेव वक्ष्ये । -

 अत्रोपपत्तिविलोमगणितेन ॥ ग्रासोनमानैक्यार्धं कर्णस्तत्कालशरः कोटिस्तद्वगन्तरपदं
भुजः । स गत्यन्तरांशैविहृतः फलमिष्टकालस्य मध्यग्रहस्य च सावनान्तरमतः स्वस्थित्यर्धाच्छो
धितमित्युपपन्नम् ॥ १६-१८ ।।

 इदानी स्पर्शादिव्यवस्थितिमाह—

मध्यग्रहः पर्वविरामकाले' प्राक् प्रग्रहोऽस्मात् परतश्च मुक्तिः ।
स्थित्यर्धनाडीष्वथ मर्दजासु संमीलनोन्मीलनके तथैव ॥१९॥


 वा० भा०-स्पष्टार्थम् । १९ ।

  इदानों वलनानयनमाह

खाङ्का ९० हतं स्वद्युदलेन भक्ततं स्पर्शादिकालोत्थनतं लवाः स्युः।
तेषां क्रमज्या पलशिख्रिनीघ्नी भक्ता द्युमौव्र्या यदवासचापम् ॥२०॥
 प्रजायते प्रागपरे नते क्रमादुदम्यमाशं वलनं पलोद्भवम्।

 वा० भा०-यस्मिन् काले वलन साध्यं तस्मिन् काले या नतघटिकास्ता: ९० हता
श्चन्द्रग्रहे रात्र्यर्धेन भक्ता अर्कग्रहे दिनार्धेन फलमंशाः स्युः । तेषां क्रमज्याक्षज्यया गुण्या द्युञ्जीवया
। भक्ता लब्धस्य चापं पलोद्धवं वलन जायते । प्राङनते सौम्यं पश्चिमनते याम्यम्। वलनानयन
मुत्क्रमज्यया कैश्चित् कृतं तन्निरासार्थमत्र क्रमज्येति विशेषणम् । पुनरेतद्विशेषणबलादन्यत्र
सर्वत्रोत्क्रमज्याः प्राप्नुवन्ति । इदं कुतः । यैरुत्क्रमज्याविधिनैतदुक्तमिति ज्ञापकात् ।

 अत्रोपपत्तिगलाध्याये ।।२०-२० ।



१. अत्र ज्ञानराजदैवज्ञः

पर्वान्तः किल साधितो भवलये सूर्येन्दुचिन्हान्तरात
 तस्मिन् बिम्बसमागमो नहि यतश्चन्द्रः शराग्रे स्थितः ॥
तस्मादायनदृष्टिसंस्कृतविधोरानीततिथ्यन्तके
बिम्बैक्यं भवतीति किं न विहितं पूर्वैर्न विद्मो वयम् ॥

अत्र बापूदेव:-

रवीन्द्रोर्गतिविश्लेषकला एकघटीभवाः ।
यास्तथा शरवृद्धेर्वा तद्ग्रासस्य च याः कलाः ।
तद्वगैक्यहृताः स्वीयवृद्धिहासघ्नमार्गणातू ।
अासेन घटिकाद्येन तिथ्यन्तो हीनसंयुतः ।
ग्रहस्य मध्यसमयो भवेत् सूक्ष्मः सुयुक्तियुक् ।
स्वल्पान्तरत्वतो नायमर्थः प्रोक्तः पुरातनैः ।