सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/283

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ सिद्धान्तशिरोमणौ ग्रहगणिते इयत्तावच्छिन्नपरिमाणराहित्यममूर्तत्वमिति । किमर्थ चन्द्रार्को ग्रसतीत्यत्र 事{Tぎ:ー हेतुमाहु 'अमृतास्वादविशेषाच्छिन्नमपि शिरः किलासुरस्येदम् । प्राणैरपरित्यक्ततं ग्रहतां यातं वदन्त्येके ॥ ग्रहणाद् ग्रहणं पक्षेण कदाचिन्मासेन साद्धमासपत्र्चकेन मासषट्केन साद्धमासषट्केन वा वर्षेण वा पक्षसहितरहितवर्षेण वा भवतीत्यनियतचारं राहुमाहुः । ग्रहणद्वयनक्षत्रानुमानेन नियतचारं च राहुमाहुः । शशाङ्कपाताख्यराहोग्रीहसप्तकातिरिक्तग्रहस्य चन्द्रार्कग्रहणे छादकत्वं न संभवतीति गणितशास्त्रविदो वदन्ति । ग्रहणे येन तमसा चन्द्रार्कावाछिन्नौ दृश्येते । स राहुरिति श्रुतिस्मृतिपुराणविद इति न कित्र्चिद्विरुद्धम् । गणितसाध्येऽपि ग्रहणे कदाचिदुत्पातेन । स्पर्शमोक्षकालादन्यत्रापि स्पर्शमोक्षौ दृश्येते । अतः एव मुनिभिः फलान्युच्यन्ते श्वेलाहीने पर्वोणि गर्भविष्पतिश्च शस्त्रकोपश्चेति' । यद्वा राहोर्वदति स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवतीति । तद्गणकेन दृग्गणितसाम्यसम्पादनपरेष्णादिष्टकाल: सर्वदा संवदत्येवेति स्फुटगणितज्ञाने यतितव्यमित्याभिप्रायिकम्। प्रकृतेरन्यत्वरूपेणोत्पातेन कदाचिद्ग्रहणगतकालवर्णग्रासमोक्षेष्वन्यथा दृष्टेष्वपि ने सुज्ञानां शथिल्यं नोचितम्। उत्पातेनाहुताशे महानशे कदाचिद् धूम एव दृश्यते नाग्निरिति सर्वत्रेदं नोचितम् । आहुताशेऽनलरूपं यस्मिन् तत्केतुरूपमेवोक्तम् । सूर्यग्रहणेऽर्कस्तु कृष्ण एव सर्वदा दृश्यते तत्रानेकवर्णवशेन फलानि श्रूयन्ते । तेनान्ये वर्णा औत्पातिका इति कल्प्यन्ते । तथैव गणितेन दशविधग्रासेषु मोक्षेषु ये ग्रासमोक्षा नोत्पद्यन्ते तेप्यौत्पातिकाः । श्र्शृंगोन्नतावपि यत्संस्थानं गणितेन नोत्पद्यते तदौत्पातिकम् । कुजस्य पञ्चविधवक्रत्वम् । अयननिवृत्तावपि प्राप्य मकरमकाँ विनिवृत्तो हन्तीत्योत्पातिकत्वमुक्तम् । अत्र मकरशब्दः सायनमकरवाचकः । नक्रादिश्च कदम्बश्च स्यातां याम्योत्तरे। सममित्यत्र नक्रशब्दवत्। एवमुत्पातेनान्यथात्वेऽपि गणितगम्योऽर्थो यथार्थं एवेति मन्तव्यम् । यथा शङ्ख पीतत्वग्रहणं लोचनगतदोषेण कस्यचित् भवति तथौत्पातहतचित्तानां केषाञ्चिदेव ग्रहणादीनामन्यथा दर्शनम् । न चोत्पाताः सर्वत्र दृश्यन्ते । यत्रैव मनुष्यानामपचारस्तत्रैवोत्पाता भवन्ति । तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः । 3अपचारेण नराणामुपसर्ग. पापसञ्चयाद् भवति । संसूचयन्ति दिव्यान्तरिक्षभौमास्तमुत्पाताः । १. बृ० सं० ५ अ० १ श्लो० । तथा च पुराणकार: - सिहिकातनयो राहुरपिबच्चामृतं पुरा । शिरच्छन्नोऽपि न प्राणैस्त्यक्तोऽसौ ग्रहतां गतः । बृ० सं० अ० १ श्लो० भट्टो० । २. बृ० सं० ४५ अ० २ श्लो० । ३. वृ० सं० ४५ अ० २ श्लो० ।