पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/282

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः ૨રે૭ यद्वा चन्द्रव्यतिरिक्तानां बिम्बानि तैजसान्येवेत्याचार्यपक्षे नास्ति। ग्रहणशङ्कानतर्रा श्रृङ्गोन्नतिशङ्कानतमां बुधशुक्रयोरर्कभेदयोगे सतमस्कार्कमण्डलकारित्वशङ्कापि। एवं स्पष्टशरस्य रविचन्द्रमानैक्याद्धदूनत्वे मनुष्यदृश्यभागस्फुरदसितेन चन्द्रणामान्ते रविराच्छाद्यते । यावदाच्छाद्यते तावद्ग्रहणमिति व्यवहियते । सूर्य प्रति प्रस्थिता नायनरश्मयश्चन्द्रमण्डले न स्वच्छायया घटवदसितेनावरुद्धाः न सूर्यमण्डलं गच्छन्तीति भावः ।। सूर्यग्रहणसमये चन्द्रमण्डलेनावरुद्धेऽर्कमण्डले लब्धात्मकं तम एव राहुरित्याहुः । आचायऽिपि वक्ष्यते गोले

  • राहुः कुभामण्डलगः शशाङ्कं शशाङ्कगः छादयतीनबिम्बम् । तमोमयः शम्भुवरप्रदानात्सर्वागमानामविरुद्धमेतद् ।। इत्यनेन मेघाद्यभावे यत्सतमस्कं मण्डलं चन्द्रार्कयोर्भवति तद्राहुग्रस्तमित्युच्यते । तत्र गणितगम्यचन्द्रग्रहणे यत्तमः स राहुः । चन्द्रबिम्बे सतमस्कता भूभाकृता, चन्द्रस्य भूभान्तः प्रवेशः शशाङ्कपातकारितः । गणितगम्यसूर्यग्रहणे यदपि तमः स राहुः । सूर्यबिम्बे सतमस्कता चन्द्रबिम्बकृता सूर्यस्य चन्द्रबिम्बसंयोगः शशाङ्कपातकृतः । शशाङ्कपातमेव राहुनामकं ग्रहमाहुः । गणितगम्यार्कचन्द्रग्रहणे शशाङ्कपाताख्यं राहुनिमित्तकारणमाहुः । राहुर्नाम पातः पातवशाच्छरः शरवशाद् ग्रहणम् । आहुः निमित्तकारणं राहुर्द्वयोरेवोपरागयोरिति

सौरेऽपि-- *भानोर्भाद्धं महीच्छाया तत्तुल्येऽर्कसमेऽपि वा । शशाङ्कपाते ग्रहणं कियद्भागाधिकोनकः ॥ इति ॥ अपर्वण्यपि गणितासाध्ये चन्द्रार्कग्रहणे यत्तमः स राहुः । चन्द्रार्कबिम्बयोः सतमस्कता त्वष्टा नामकग्रहकृता । अत एवाहु:-

  • सतमस्को पर्वविना त्वष्टा नामार्कमण्डलम् । उपरागपरागतं तम इन्द्वर्कमण्डलाकृतियुक्तम् ॥ इति । तथैव वदन्ति मुनयः केचित् । ‘इन्द्वर्कमण्डलाकृतिरसितत्वात् किल न दृश्यते गगन इति । ग्रहणे फलविशेषार्थ सपकारो राहुः कार्य इति विधेरर्थवादार्थ राहुस्वरूपं वर्णयन्ति । -
  • मुखपुच्छविभक्ताङ्ग भुजङ्गमाकारमुपदिश्यन्त्यन्ये । अद्धिखण्डिततनोः सूर्यस्य विषाणयोस्तीक्ष्णता भवति । चन्द्रस्य कुण्ठता दृश्यत इति सूर्यग्रहे लघु: छादकश्चन्द्रग्रहे महानित्यभिप्रायेणाहुः । कथयन्त्यमूर्तमपरे तमोमयं सैहिकेयाख्यम् ॥ इति ॥

१. सि. शि. गो. ग्र १०० श्लो. । २. सू० सि. च. ग्र. ६ श्लो. । ३. बृ० सं० ३ अ० ६ श्लो० । ४. बृ० सं० ५ अ० ३ श्लो० ।