पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/260

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१५
त्रिप्रशनाधिकारः

 ननु प्रश्ने गोलस्यानिर्दिष्टत्वात् कथमन्त्यां साधयेत् । सत्यम् । तत्र युक्तिः । यस्मिन् गोले कल्पिते कल्पिताया इष्टान्त्यकाया आसन्ना साधितेष्टान्त्यका भवति स गोल: कल्प्यः । तस्या इष्टान्त्यकायाश्च पुनर्द्युज्या । ततः क्रान्तिज्या । तत इष्टान्त्यका ॥ एवमसकृत् क्रान्तिज्या स्फुटा भवति । ततो रविव्र्यस्तविधिना ॥

 अत्रोपपत्तिविलोमगणितेन- अत्र महाशङ्कुञ्ज्ञात एव । ततोऽनुपातः । यदि द्वादशा- ङ्गुलशङ्कोः पलकर्णः कर्णस्तदा महाशङ्कोः क इति ॥ फलमिष्टहृति: स्यात् । हृतिस्त्रिज्यागुणा यदि द्य ज्यया ह्नियते तदेष्टान्त्या लभ्यते। यदीष्टान्त्यया ह्नियते तदा द्य ज्या लभ्यते। अत इयमिष्टहृतिस्त्रिज्यागुणा कल्पितेष्टान्त्यया भक्ता फलं द्य ज्या ।

 अत उक्तमिष्टान्त्यकामुन्नतकालमौवीतुल्यां प्रकल्प्याथ तया विभक्तः । इष्टप्रभाशङ्कु- हतोऽक्षकर्णस्त्रिज्यागुणो द्वादशभाजितश्च द्युज्या भवेदिति । ततः क्रान्तिज्या । ततश्चरादिके- नेष्टान्त्येत्युपपन्नम् ॥ ८९-९१ ॥

 अथान्यं प्रश्नमाह-

यत्र क्षितिज्या शरसिद्धतुल्या २४५ स्यात् तद्धृतिस्तत्त्वकुरामसंख्या ३१२५॥
तत्राक्षभाकीं गणक प्रचक्ष्व चेदक्षजक्षेत्रविचक्षणोऽसि ॥ ९२ ।।

 अस्योत्तरमाह—

कुज्योनतद्धृतिहृता कृतशक्रनिध्नी
कुज्यैव यत् फलपदं पलभा भवेत् सा ।
कुज्या हता रविभिरक्षभया विभक्ता
क्रान्तिज्यका भवति भानुरतो विलोमम् ॥९३॥

 वा० भा० -स्पष्टार्थम् ।

 अत्रोपपत्तिः-तत्र पलभाप्रमाणं यावत्तावत् १ । अतोऽनुपातः । यदि पलभामिते

भुजे द्वादश कोटिस्तदा कुज्यामिते केति । फल क्रान्तिज्या । पुनद्वितीय त्रैराशिकम्।

यदि पलभामिते भुजे द्वादश कोटिस्तदा क्रान्तिज्यामिते केति फलं कुज्योनिता तद्धति-

भवति । एवमत्र कुज्याया २४५ द्वादशवर्गो गुणः पलभावगों हरः । तथा कृते न्यासः

छद: याव १ ।।

इदं कुज्योनतद्धतिसममितिपक्षौ समच्छेदीकृत्य छेदगमे शोधनार्थ न्यासः

याव० रू O sNA vQ R |ातं पलभामानं

き双マー o ] पक्ष नखशेले ७ २० रपवत्र्य पक्षयोमूले गृहीते जत

याव २८८० रू ०॥

साधर्गनि त्रीण्यङ्गलानि ३३ । यदि पलभया द्वादश कोटिस्तदा कुज्यया किमिति फलं क्रान्तिज्या

८४० । एवं कुज्योनतद्धृतिरित्यादि सर्वमुपपन्नम् ।। ९२-९३ ॥