पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/259

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
सिद्धान्तशिरोमणौ ग्रहगणिते

 अत्रोपपत्तिः---अत्र योन्नतकालज्या सा तद्धृतिः कल्पिता । तयानुपातः । यदि समशङ्की- स्तद्धृतिः कर्णस्तदा द्वादशाङ्गुलशङ्कोः क इति ॥ फलं पलकर्णः । ततोऽन्योऽनुपातः ॥ यदि पलकर्णस्य पलभा भुजस्तदा समशङ्कुतुल्यस्य कर्णस्य क इति । फलं क्रान्तिज्या । यतः समशङ्कुः कर्णः ॥ क्रान्तिज्या भुजः । कुज्योनिता तद्धृतिः कोटि: ॥ इवं पलक्षेत्रम् । एवमसकृत्कर्मणा पल- भाक्रान्तिज्ये स्फुटे भबत इत्युपपन्नम् ॥ ८६-८८ ।।

  इदानीमिष्टप्रभाप्रश्नमाह--

पञ्चाङ्गुला गणक यत्र पलप्रभा स्यात् तत्रष्टभा नवमिता दशनाडिकासु ।
दृष्टा यदा वद तदा तरर्णि तवास्ति यद्यत्र कौशलमलं गणिते सगोले ॥८९॥

  वा० भा० - स्पष्टम्। ८९ ॥

  अस्योत्तरमाह--

  इष्टान्त्यकामुन्नतकालमौवीतुल्यां प्रकल्प्याथ तया विभक्तः ।
  इष्टप्रभाशङ्कुहतोऽक्षकर्णस्त्रिज्यागुणो द्वादशभाजितश्च ॥९०।
  द्युज्या भवेत् तत्कृतिवर्जितायास्त्रिज्याकृतेमूलमपक्रमज्या ।
  इष्टान्त्यका प्राग्वदतोऽसकृच्च द्युज्यापमज्या' च ततः खरांशुः ।।९१।।

 वा० भा०--अत्र नवाङ्गुलेष्टभा । तत्कर्णः पञ्चदशाङ्गुलः १५ । त्रिज्यार्कघातः श्रुति- हृन्नरः स्यादिति जात इष्टभाया महाशङ्कुः खबाणाद्रिदस्राः कलाश्चतुविशतिविकलाधिकाः २७५० ॥ २४ । अथोन्नतकालस्य ज्या सा प्रथममिष्टान्त्यका कल्प्या । तयेष्टान्त्यकयेटच्छायामहा- शङ्कुरक्षकर्णेन गुणितो भाज्यः । यत् फलं तत् त्रिज्यया गुणितं द्वादशभिश्च भाज्यम् । फलं स्थूला द्युज्या स्यात्। अथ त्रिज्याकृतेद्युज्याकृतिविवजिताया मूल क्रान्तिज्या। ततः क्रान्ति- ज्यायाश्चरादिकं साध्यम् । ततोऽथोन्नतावूनयुताच्चरेणेत्यादिनेटान्त्यका साध्या ।


१. अत्र बापूदेवः--

 ये तीक्ष्णभानूनतकालजाते क्रमोत्क्रमज्ये क्रमशो हते ते ।

 अक्षोत्थकणीक्षभवप्रभाभ्यां तद्वर्गयोगो हरसंज्ञकः स्यात् ।

 त्रिज्याक्षकर्णाहतिरिष्टकणोंद्धृता भवेदिष्टहृतिश्च तस्याः ।

 पलश्रुतिघ्न्याः कृतिरेतदूनाद्धरात् पदं चोन्नतकालमौव्य ।

 विनिध्नमाद्यः पलभोन्नतासूत्क्रमज्ययोराहतिरिष्टहृत्या ।

 समाहताऽन्यस्त्रिभमौविकाकहित्या हतौ तौ हरसंविभक्तौ ।

 अाद्यान्ययोरैक्यमपक्रमज्या सौम्या भवेत् तद्विवरं च याम्या ।

 यद्यन्तरेऽन्यात् प्रथमो विशुध्येत् तदा द्विधा सौम्यदिगेव सा स्यात् ।

 अक्षोद्भवश्रुतिहतेष्टहृतेः कृतिः स्यात् तुल्या हरेण यदि तह्यपमज्यका तु ।

 अन्यप्रभा भवति सौम्यदिगेकर्धवोद्दिष्ट खिल यदि कृतिहरतोऽधिकेयम् ।