पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/256

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२११
त्रिप्रश्नाधिकारः

 वा० भा०-त्रिज्यार्कघातः श्रुतिहृन्नर: स्यादिति साधारणम्। त्रिज्याद्वादशघातस्य यस्याश्छायायाः कर्णेन भागो ह्रियते तस्याः सम्बन्धी महाशङ्कुर्लभ्यते । अत्रानुपातः । यद्यनेन कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्याकर्णेन क इति । एवमत्रोदाहरणे यो लभ्यते स समशङ्कुः । स कर्णः ॥ सहार्धगतस्यार्कस्य क्रान्तिज्या भुजः । तद्वर्गान्तरपदं कुज्योनिता तद्धृतिः कोटिः । इर्द पलक्षेत्रम्। यद्यनया कोटपा क्रान्तिज्या भुजो लभ्यते तदा द्वादशाङ्गलमितया किमिति। फलं पलभेति त्रैराशिकेनोपपन्नम् । अत्र समण्डलशङ्कुद्वादशी ज्या २४३१ । सिंहार्ध ४ । १५ क्रान्तिज्यापश्चांशोना अष्टवसुनन्दाः ९८७||४८ । अनयोर्वर्गान्तरपदेन द्वादशगुणा क्रान्तिज्या भाज्या । तत्रास्या वर्गः & ७५७४९ । शङ्कुवर्गः ५९०९७६१ ॥ अनयोरन्तरम् ४९३४०१२ मूलम् २२२१ ॥ १५ अनेन भक्ता द्वादशगुणा क्रान्तिज्या ११८५३ ॥ ३६ लब्धा तत्र देशे पलभा सत्र्यंशपञ्चाङ्गुला ५ ॥ २० ॥ ८० ।।

 वा० वा०-इदानीं सममण्डलप्रश्नोत्तरे आह-दिनकरे करवैरिदलस्थित इति । त्रिज्यार्कघात इति भाष्ये स्पष्टा वासना। बीजनिरपेक्षमुक्तरमुतम्। अन्येऽपि । सोत्तराः प्रश्नाः भाष्ये स्पष्टाः ।। ७९-८० ।।

  इदानीमन्यौ प्रश्नौं -

  मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे
  काले पश्वघटीमिते दिनगते यद्वा नते तावति ।
  केनाप्युञ्जयिनीगतेन तरणेः क्रार्नित तदा वेत्सि चे-
  न्मन्ये त्वां निशितं सगर्वगणकोन्मत्तेभकुम्भाङ्कुशम् ॥ ८१ ।।

  वा० भा०-हे गणक केनचित् किलोज्जयिनीगतेन यदा दिनगते पश्चघटीमिते काले मार्तण्डः सममण्डलं प्रविष्टो दृष्टस्तदा कियती क्रान्तिज्येत्येकः प्रश्नः । अथान्यः ॥ तावति पञ्च- घटीमिते नते वा काले सममण्डल प्रविष्टो दृष्टस्तदा च या क्रान्तिज्या तां त्वं चेट्टेत्सि तदा सगर्वगणकोन्मत्तेभकुम्भांकुशं निशाणोद्धूतं त्वामहं मन्ये ।। इति स्पष्टार्थम् ।। ८१ ॥

इदानी प्रथमप्रश्नस्योत्तरमाह—

  या स्याद्रवेरुन्नतकालजीवाभीष्टा हृतिः सा प्रथमं प्रकल्प्या ।
  अक १२ क्षभाघातहताक्षकर्णकृत्योद्धृता स्यादपमज्यकास्याः॥८२॥
  चरादिकेनेष्टहृतिः प्रसाध्या क्षुण्णस्तया क्रान्तिगुणोऽसकृच्च ।
  तदाद्यहृत्या विहृतः स्फुटः स्यात् सहस्ररश्मौ सममण्डलस्थे' ॥८३।।


१. अत्र बापूदेवः--

 अर्काङ्गुलोना च पलप्रभैतौ मिथो हृतौ तद्युतिराद्यसंज्ञा ।

 समुन्नतासूत्क्रममौर्विकायास्त्रिभज्ययास परसंज्ञक स्यात्।

 आद्यस्य वर्गात् परवर्गहीनान्मूलेन भक्तोन्नतकालजीवा ।

 क्रान्तिज्यका स्यातू सकृदेव सूक्ष्मा सहस्ररश्मी समवृत्तयाते ॥