सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/242

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
त्रिप्रश्नाधिकारः

लशङ्कुबुल्यमूथ्र्ब लभ्यते तदा शरेण त्रिण्यावृतपरिणतेन कियदित्येवं तावतूच्र्वमिति सर्वमुपपन्नम् ॥ ५८3-६० ।।

 इदानीमिष्टान्त्यकाहृतिभ्यां शङ्कुमाह-

इष्टान्त्यकायाश्च हृतेश्च यद्वा दिनार्धशङ्कूत्तवदिष्टशङ्कुः ।
शङ्कोश्च दूग्ज्याश्रवणप्रभाः स्युर्हृतेर्न दृग्ज्या सुधियात्र कार्या ॥६१॥

 वा० भा०-यथान्त्याया अन्त्याथवोन्मण्डलशङ्कुनिघ्नीत्यादिना प्रकारेण दिनार्धशङकुरानीतः । तथ यथा हृतेश्च हृतिः पलक्षेत्र ज़कोटिनिघ्नीत्यादिना च तथेष्टान्त्यकाया इष्टहृतेश्चेष्टशङकुः साध्यः । तथा शङ्कीद्वग्ज्या तनश्छायाकर्णश्छाया च साध्या । सा दिनाधोंक्तिवत् साध्येति शेषः । किन्त्वत्र हृतेदृग्ज्या हृतिः पलक्षेत्रभुजेन निघ्नीत्यादिना न साध्या अयमर्थस्तत्राप्युक्त: ।

 अत्रोपपत्तिः ॥ हृतिर्दक्षिणोत्तरमण्डलगता तया या दृग्ज्या साधिता सा दक्षिणोत्तरमण्डल एव दिनार्धे भवितुमर्हति । यतस्तत्र दक्षिणोत्तरमण्डलमेव दृङ्मण्डलम् ॥ इह त्वन्यत् । अतो हृतेदृग्ज्या न साध्येत्युक्तम् ।। ६१ ।।

 अय प्रकारान्तरैश्छायाकर्णमाह-

उद्वृत्तकर्णातू क्षितिशिख्रिनीघ्नातू समाख्यकर्णादपि तद्धृतिघ्नान् ।
दिनार्धकर्णादथवा हृतिघ्नाद्धृत्येष्टयाप्तं यदिवेष्टकर्णः ।। ६२ ।।

 वा० भा०--यः पूर्वमुन्मण्डलकर्ण अानीतः स कुज्यया गुण्यः । यश्च समवृत्तशङ्कोः कर्ण उत्पद्यते स तद्भुत्या गुणनीयः । यस्तु मध्यच्छायाकर्ण: स हृत्या गुण्यः । तेभ्यस्त्रिभ्य इष्टया हृत्या भागे हृते पृथक् पृथक् त्रिधेष्टकर्णो भवति ।

 अत्रोपपत्तिव्यैस्तत्रैराशिकेन । यदि कुञ्ज्यातुल्यया हृत्योन्मण्डलकर्णस्तद्धृत्या सममण्डलकर्णो हृत्या मध्याह्नकणों लभ्यते तदेष्टहत्या किमिति। फलमिटकणों लभ्यत इत्युपपन्नम् ॥ ६२ ॥

 वा० वा०-प्रकारान्तरेणेष्टछायाकर्णानयनम् । उद्वृत्तकर्णात् इति। व्यस्तत्रैराशिकेन भाष्येऽत्रोपपत्तिरुक्ता ।। सूर्यपक्षशरणकरणादिनिर्मातृभिरस्मत्पतृव्यचरेणैविष्णुदैवजैस्त्रैराशिकद्वयेनोपपतिरुता । कुज्याकणें उन्मण्डलशङ्ककोटिस्तदेष्टहृतिकणें का कोटिः जातःशङ्कः । अस्मिन् शङ्कौ त्रिज्याकर्णस्तदा द्वादशकोटौ कः कर्ण इति छेदं लवं च परिवर्येत्यनेन द्वादशगुणा त्रिज्या यावदुवृत्तशडूना भज्यते तावदुदृतकणोंपलभ्यते । एवं समदिनार्द्धकर्णावपि लभ्येते। तत इष्टकर्ण इति सर्व शोभनम्। স্বল্প सर्वत्र यस्मिन् काले छाया साध्यते तस्मिन्नेव काले स्वैःस्वैरानयनप्रकारैदिनार्द्धकणंसमकणोंन्मण्डलकर्णाः साध्यास्तैस्तात्कालिक: प्रतिक्षणविलक्षणेरेवेष्टछाया साध्या । त्रैराशिके प्रमाणेच्छयोः समानजातिनियमोऽवश्यमपेक्षितः । कुज्येष्ठहृत्योरेकाहोरात्र


१. कृति इति ग पु० पाठ: । .