सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/241

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
सिद्धान्तशिरोमणी ग्रहगणिते

द्युज्याहतो व्यासदलेन भक्तः कुज्याहतो वा चरशिञ्जिनीहृत् ॥५८॥
शरः पृथक्स्थेन फलेन हीना हुतिर्भवेद्वा हृतिरिष्टकाले ।

 वा० भा०-इष्टकाले यन्नत तस्योत्कमज्या सा शरसंज्ञा ज्ञेया । अनेन शरेण प्रागानीतान्त्या रहिता सतीटान्त्या वा भवति। अथ शरो द्युज्यागुणो व्यासदलेन भतः । अथवा कुज्यागुणश्चरज्यया भक्तः ॥ यत् फलं तदनष्टं स्थाप्यम् ॥ तेन पृथक्स्थेन फलेन प्रागानीता हृतिवजिता सतीटहतिर्वा भवति ।

 अत्रोपपतिः। गोलक्रमेण त्रिज्या चरज्यया युतोना किलान्त्या भवति । सूत्र चरज्यया युतीनमिष्टान्त्या भवति। नतोत्कमज्यया बाणरूपया त्रिज्या यावदूनिता क्रियते तावत् सूत्र भवति। अत उत्ततं शरोनान्त्येष्टान्त्या भवति । अथ यः शरस्त्रिज्यापरिणतोऽसावनुपातेन द्युज्यापरिणतः कृतः । यदि त्रिज्यया द्युज्या लभ्यते तदा शरेण किमिति। अथवा चरज्यया कुज्या लभ्यते तदा शरेण किमिति त्रैराशिकाभ्यां यत् फलमुत्पद्यते सा नतोत्क्रमज्या द्युज्यापरिणता जाता । द्य ज्या कुज्यया युतहीना किल हृति: स्यात्। कला तु कुज्यया युत्तोनेटहृति: स्यात्। अथ नतोत्क्रमज्यया द्य ज्यापरिणतया यावत्रद्य ज्या वाजता क्रियते तावत् कला भवति । यदि हृतिरूना क्रियते तंदेष्टहृतिर्भवतीत्युपपन्नम् ।

 अथ स्वाहोरात्रवृत्ते याम्योत्तरवृत्तसम्पाते सूत्रस्र्यकमग्र बद्ध्वा द्वितीतमधः सम्पते च ॥ तस्य सूत्रस्योदयास्तसूत्रेण यः सम्पातस्तस्मादुपरितनं खण्डं हृतिः । अथाहोरात्रवृत्ते याम्योत्तरवृत्तसम्पातात् पूर्वतः पश्चिमतश्च नतघटिकाग्रे चिह्नयित्वा तत्र सूत्रं बध्नीयात् । तस्य सूत्रस्य. हतसूत्रस्य च यः सम्पातस्तस्मादधः खण्दं यदुदयास्तसूत्रपर्यन्तं तावत्प्रमाणेष्टहृतिः ॥ यत् तूर्ध्वखण्डं सा नतोत्क्रमज्या द्यज्यापरिणता फलसंज्ञा । एवं गोलोपरि दर्शयेत् ॥५८-५८३॥

 इदानीमिष्टशङ क्वर्थमाह-

फलं पलक्षेत्रजकोटिनिघ्नं तत्कर्णभक्ततं च तदूर्ध्वसंज्ञम् ॥५९॥
उद्वृत्तशङ्कोः शरसंगुणात् स्याच्चरज्ययाप्तं यदिवोर्ध्वसंज्ञम् ।
ऊर्ध्वेन हीनो दिनमध्यशङ्कुः स्यादिष्टशङ्कुर्नततोऽथवैवम् ॥६०॥

 वा० भा०-यत् पूर्वफलमनट स्थापितं तदष्टधा पलक्षेत्रकोटिभिगुणित स्वस्वकर्णन भक्त सदूऽर्व संज्ञमष्टधा भवति ॥ अथवा प्रागानीतः शर उन्मण्डलशंकुना गुणितश्चरज्यया भक्तस्तदूध्वंसंज्ञं स्यात् किं फलानयनप्रयासेन ॥ तेनोध्बंसंज्ञेन दिनार्धशंकुरूनितः सन्निष्टशंकुर्भवति ॥

 अत्रोपपत्तिः । यत् प्राक् प्रदशितं हृतेरुपरिखण्डं फलसंज्ञं तिर्यग्रूपं तस्य कोटिरूपकरणायानुपातः । यदि पलक्षेत्रकणेंन तत्कोटिर्लभ्यते। तदानेन फलसंज्ञेन किमिति । लब्धमूध्बं कोटिरूपं भवति । तद्यावद्दिनार्धशङ्कोनिशोध्यते तावदिष्टशङ्कोः समानमवशेषं भवति । यतस्तत्समसूत्रेणैवार्कविम्बमहोरात्रवृत्ते वर्तते ॥ यदि चरज्यया त्रिज्यावृत्तपरिणतयोन्मण्ड