पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/239

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९४
सिद्धान्तशिरोमणी ग्रहगणिते

चरेणीनयुतस्योन्नतकालस्य किल ज्या साध्या । सा च ज्या मध्यावधिर्भवति । स च प्रदेशोऽहोरात्रवृत्तस्योन्मण्डलसंपाते भवति । यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्धमधोऽर्धम् ॥ अत उन्मण्डलावधेजीवा साध्या । क्षितिजोन्मण्डलयोरन्तरं धरार्धम्। अतश्चरार्धन वजितादुन्नतादुत्तरगोले दक्षिणे तु युतात् । यत उत्तरगोले क्षितिजादुपर्युन्मण्डलं दक्षिणेऽधः । तस्मात् कालाद्या ज्या साधिता सा त्रिज्यावृत्तपरिणता सा च सूत्रसंज्ञा । अथ यदि त्रिज्यावृत एतावती तदा ह्युज्यावृत्ते कियतीत्यनुपातेन द्युज्यावृत्तपरिणता । सा च कलासंज्ञा ॥ ५३-५४ ॥

 इदानी प्रकारान्तरेण कला तस्याश्रेष्टयष्टिमाह-

सूत्र कुजीवागुणितं विभक्त चरज्यया स्यादथवा कला सा ।
कला पलक्षेत्रजकोटिनिध्नी तत्कर्णभक्ता भवतीष्टयष्टिः ॥५५॥

 वा० भा०-अथवा तत् सूत्र कुज्यया गुणितं चरज्यया भक्त सत् कला भवति। सा च कलाष्टधा पलक्षेत्रकोटिभिर्मुण्या स्वस्वकणेंन भाज्या फलमटधेटयष्टिर्भवति ।

 अत्रोपपतिः । चरज्याकुज्ये त्रिज्याद्युज्यापरिणते । अतस्ताभ्यां चानुपातः । यदि चरज्यया कुज्या लभ्यते तदा सूत्रेण किमिति । फल कला । सा कलाहोरात्रवृत्ते ज्या । सा पलवशादक्षकर्णवत् तिरश्चीना जाता ॥ अथ तस्या कोटिसूत्रमात्रमानेयम् । तत्रानुपातः । यदि पलक्षेत्रकणेंन तत्कोटिर्लभ्यते। तदा कलाकणेंन किमिति । फलमुन्मण्डलशड्क्वग्रसमसूत्रादुपर्यकबिम्बादधऊध्र्वं कोटिरूपं भवति । तस्येष्टयष्टिसंज्ञा ॥५५॥

 वा० वा०-कालवशेन छायानयन छायातश्च कालानयन भाष्ये स्पष्टम् । क्वचित् किचिल्लिख्यते।
 स्यादुन्नतं द्युगतशेषकयोर्यदल्पं तेनोनितं दिनदलं नतसंज्ञकमिति ॥
 गोलेऽहोरात्रक्षितिजसम्पाताद्यावतीभिर्घटीभिर्ग्रह उन्नतः स उन्नतकालः । याम्योत्तराहोरात्रवृत्तसम्पाताद्यावतीभिर्घटीभिर्नतः स नतकालः । क्रान्तिवृत्तस्थो यो राशियेन मार्गेण पूर्वक्षितिजात्पश्चिमक्षितिजं प्रति प्रवाहानिलेन नीयते तन्मागोंपरिवृत्तं तत्तस्य राशेरहोरात्रवृत्तमित्युच्यते ।

 अथोन्नतादूनयुताच्चरेण क्रमादुदकृदक्षिणगोलयोज्यी। स्यात् सूत्रमिति।

 ननु क्षितिजादुन्नतस्य ज्या न साध्यते कथमुन्मण्डलादुन्नतस्य जीवा साध्यतइत्यत्राह भाष्यकारः । अथोत्रतकालस्य ज्या साध्या सा च ज्या मध्यावधिर्भवति । स च मध्यप्रदेशोऽहोरात्रवृत्तस्योन्मण्डलसंपाते भवति । यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्द्धमधोऽर्द्धञ्च भवति ॥

 अत उन्मण्डलावधिजीवा साध्यते । इदं सूत्रं मध्याह्न त्रिज्यातुल्यं भवति ॥ अत एव चरज्ययोना दक्षिणगोले त्रिज्यान्त्या भवति । उत्तरगोले चरज्यया युक्ता त्रिज्या दिनाद्धान्त्या भवति । इष्टकाले चरज्याग्रादुपरि खण्डमन्त्यायाः सूत्रमित्युच्यते । कुज्याग्रादुपरि खण्डमिष्टहुतेः कलेत्युच्यते । सा च कला मध्याही द्युज्या तुल्यैव भवति। एवमिटशङ्कोरुन्मण्डलशङ्क्वग्रसमसूत्रादुपरि खण्ड यष्टिरिति। एवं नतादपि