वा० वा०-प्रकारान्तरेणाह-व्यासार्द्धवर्ग इति। अत्र छायाकर्णप्रमाण यवत्तावदेकं प्रकल्प्य ॥
त्रिभज्याहृतार्काग्रका कर्णनिघ्नी भवेत् कर्णवृत्ताग्रका व्यस्तगोला ।
पलछायया सौम्यया संस्कृता स्याद् भुज।
इति वक्ष्यमाणप्रकारेण' भुजः साध्यः । ततो दिग्ज्या साधनार्थमनुपातः । लघुक्षेत्रे छायातुल्यदृग्ज्याकणेंनायं भुजस्तदा बृहत्क्षेत्रे त्रिज्यातुल्यदृग्ज्याकणेंन को भुज इति दिग्ज्या स्यात् । पूर्वमेका दिग्ज्या ज्ञातैवास्ति । तयोः समीकरणेन सर्वं भाष्ये गणेशदैवज्ञटिप्पणे च। स्पष्टम्। इदमिष्टदिक्छायानयनमेकेनानयनेन पूर्वेनक्तिमाचायॉक्तोऽयं विशेषः ॥ ४९-५१ ॥
इदानीमही सर्वासां दिक्छायानामेकमेवानयनमप्रसिद्धमनेनाचायेंणोत्तम्। तत्र का प्रतीतिरिति मन्दानामाशङ्क परिहरन्नाह—
कर्णाग्रया बाहुरिह प्रसाध्यख्रिज्याहतोऽसौ प्रभया विभक्तः । |
वा० भा० --इर्द सूज्ञेरुतमात्रमपि ज्ञायते । इदानीं ये जडास्तेषां प्रतीत्यर्थ वक्ष्यमाणप्रकारेण कर्णाग्रया बाहुः साध्यः स बाहुस्त्रिज्यया गुण्यश्छायया भक्तो दिग्ज्या भवति । यतः शङ्कुमूलाच्छायाग्रगामि सूत्रं यत्र त्रिज्यावृत्ते लगति सा तस्याश्छायाया दिक् । किन्त्वर्कदिग्वैपरीत्येन भवति। एबं मन्दानां प्रतीतिरुत्पाद्या। ५२ ।
एवं दिङ्कनियमेन छायानयनमभिधायेदानीं कालनियमेनाह-
उत्ता प्रभाभिमतदिङ्नयमेन तावत् |
अथोन्नतादूनयुताचरेण क्रमादुदग्दक्षिणगोलयोज्य । |
वा० भा० - दिवसस्य यद्गत यच्च शेष तयोर्यदल्पं तदुन्नतसंज्ञ ज्ञेयम् ॥ तेनोन्नतेनो नीकृतं दिनदलप्रमाणं तन्नतसंज्ञं भवति ॥ अथोन्नताडुन्नतकालावुत्तरगोले चरेणोनिताद्दक्षिणे युताद्या ज्या तत् सूत्रम् । सा सूत्रसंज्ञेत्यर्थः । तत् सूत्रं द्युज्यया गुणितं त्रिज्यया भक्तं कलासंज्ञं भवति ।
अत्रोपपत्तिः । यस्मिन् काले छाया साध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावतीभिर्घटि*ोभि: क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा । येन कालेन मध्याह्वान्नतस्तस्य नतसंज्ञा ॥ अथ
१ सि० शि० ग त्रि० ७२ श्लो० ।
।fo--༢༥