पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/236

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
त्रिप्रशनाधिकारः


सममण्डलादिदिग्ज्यया लिमिति व्यस्तत्रैराशिकेन क्रान्त्यभावे सममण्डलादिगताः पलभाः भवन्ति । शेषं भाष्ये स्पष्टम् ॥ ४५-४८ ॥

इदानी प्रकारान्तरेणेच्छादिक्छायामाह

व्यासार्धवर्गः पलभाकृतिघ्नो दिग्ज्याकृतिद्वादशवर्गनिघ्नी ।
तत्संयुतिः स्यात् प्रथमस्तथान्यस्त्रिज्याक्षभाग्राभिहतिस्ततस्तौ ॥४९॥
दिग्ज्याग्रयोर्वर्गवियोगभत्तौ यदन्यवर्गेण युताद्यराशेः ।
पदं तदन्योनयुतं श्रुतिर्वा गोलक्रमादिष्टदिशं गतेऽर्के ॥५०॥
स्यादग्रकाया यदि दिग्ज्यकाल्पा तदान्यवर्गान् प्रथमेन हीनान् ।
मूलेन हीनः सहितो द्विधान्यः कर्णद्वयं स्यादिति सौम्यगोले' ॥५१॥

वा० भा०-एकत्र त्रिज्यावर्ग: पलभावगैष्ण गुण्योऽन्यत्र दिग्ज्याकृतिद्वादशवर्गेण गुण्या । तयो राश्योर्योगः प्रथमसंज्ञः स्थाप्यः । अथ त्रिज्याया अक्षभाया अग्रायाश्च तिसृणां घातोऽन्यसंज्ञश्च स्थाप्यः । अथ दिग्ज्याया अग्रायाश्च वगन्तरेण तावाद्यान्यावपवत्यां ॥॥। ततो य अाद्य राशिस्तस्मादन्यराशेर्वर्गेण युताद्यत् पदं तदन्येन राशिनोनं सदुत्तरगोले दक्षिणगोले तु युतं सदिष्टदिशांगतेऽकें छायाकणों वा भवति । अथोत्तरगीले यदि दिग्ज्याग्राया: सकाशादल्पा भवति



१. अत्र बापूदेवोक्तो विशेषः ।

पलप्रभाध्नत्रिगुणस्य वर्गों वर्गेण दिग्ज्याकहते: समेत: ।
आद्यस्ततोन्यस्त्रिगुणाक्षभाग्राहतिर्द्विभूसङ्गणिताऽग्रकायाः ।
वर्गेणहीनात् प्रथमात् पदं दिग्जीवाहतं चान्ययुतोनितं यत् ।
गोलक्रमात्तेन हृदाद्य इष्टां काष्ठां गते भास्वति भाश्रुतिः स्यात् ॥
दिङ मौविंकाग्रानधिका यदा स्यातू पदेन दिग्ज्यागुणितेन तेन ।
द्विष्ठः परो हीनयुतस्तदासे आद्याच्छ्रुती उत्तरगोलगेऽर्के ॥
तत्रापि मार्तण्डगुणाग्रकातः पलप्रभाघ्नत्रिगुणेऽधिकोने ।
बोध्यं द्विधा साधितकर्णमान क्रमेण भिन्नैककपालजातम् ।
यत्राद्य आदित्यगुणाग्रकायाः कृत्या समःस्यादिह दिग्गुणस्य ।
अग्राल्पकत्वेऽपि हि सौम्यगोले छायाश्रुतिः स्यात् स्फुटमेकधैव ॥
साद्यात् परेष्णासमिताऽथवाग्राब्ध्यब्धीन्दुघातातू पलभात्रिमौव्यों: ।
घातेन लब्धा ह्यथवाकनिघ्नक्रान्तिज्यकायाः पलजीवयासा ।
दिग्ज्या यदात्वग्रकया समा स्यात् सौम्ये तदाद्यस्य दलात् परेण ।
अवासमेका खलु भाश्रुति: स्यात् तथापरा तत्र भवेदनन्ता ।
श्रीम० बापू देवोत सौम्येऽपमेक्षादधिकेसति परमाल्पदिग्ज्यानयनम् ।
त्रिज्याक्षभानिहतिरकोहृताप्तकृत्या हीनाग्रकाकृतिरतः पदमत्र दिग्ज्या ।
ज्ञेया बुधैलघुतमा किल सौम्यगोले क्रान्तेलवाः पललवाभ्यधिका यदा स्यु:।