सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/235

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
सिद्धान्तशिरोमणौ ग्रहगणिते


युक्तान्मूलं जातः कर्णः पलभासम एव *७8& * । त्रिज्या पलभया गुण्या तत्कर्णेन तत्समानेनैव भाज्या ॥ एवमक्षज्या भवति ॥ अत्र तुल्यत्वाद्गुणकभाजकयोः शून्ययोः पलभतुल्ययोश्च नाशे कृते त्रिज्यैवाक्षज्या जाता । तद्धनुरंशा नवति ९० रक्षः । नवतेः शोधितोऽक्षो लम्बः पूणंम् ० ॥ अथ तया विनिघ्नोत्यादि । तया त्रिज्यातुल्ययाक्षज्यया ३४३८ क्रान्तिज्या ७८० गुण्या स्वदेशाक्षज्ययानया १३२२ ॥ १८ भाज्या । एवं कृते समशङकुरुत्पद्यते । इयमिष्टक्रान्तिज्या जाता २०२८ । अत्र लम्बः पूर्णम् ० ॥ अयमिष्टक्रान्तिज्याधनुषा किलाधिकः कर्त्तव्यः । एवं कृतउन्नताशा भवन्ति । तेषा जीवा स शङ्कुः । एवं स एव सममण्डलशङ्कुर्भवति । एवं यदा क्रतिज्या पूर्ण ० भवति तदा खगुणश्चिन्त्यश्च शेषविधावित्यादिगणितोक्त्या शून्यपरिभाषयाग्रासमशङ्क्वादीनि साधितान्यन्येषामनुपातार्थं न क्वचिद्दुष्यन्ति ।॥ ४६३-४८ ।।

 वा० वा०-अथैकानयनेनेटदिक्छायानयनमाह-चक्रांशकाङ्क। इति। अत्र दिग्ज्याग्रन्यस्तं दृङ्मण्डलमेवैकादिगिति व्यवह्रियते । यथा सममण्डलच्छायाकोणवृत्तछाया याम्योत्तरवृत्तछाया तथेटदिग्ज्याग्रन्यस्तदृङ्मण्डलछायेति भावः । क्रान्त्यभावे या याम्योत्तरछाया सा यथा पलभेत्युच्यते तथैव क्रान्त्यभावे समवृत्तकोणवृत्तादिगताः छाया अपि समवृत्तादि पलभा भवितुमहति तुल्यन्यायत्वातू । याम्योत्तरपलभातो यथा याम्योत्तराक्षांशाः सिद्धयन्ति तथैवैताभ्यः पलभाभ्यः पूर्वापराद्यक्षांशा भवितुमहन्ति। तत्र यथा दक्षिणोत्तरक्रान्तिपलांशयोगेन वियोगेन वा नतांशा भवन्ति तथात्रापि पूर्वापराद्यक्षाशक्रान्तिसंस्कारेण नताशा युक्ता इत्युपायो दृष्टः । खमध्यार्कयोरन्तरांशा दृङ्मण्डले नर्ताशाः भवन्ति । कदाचिदप्यभीष्टदिने यस्मिन् काले पृच्छकः पृच्छति तत्र कालेऽर्कोपरिन्यस्तस्य दृङ्मण्डलस्य क्षितिजस्य सम्पाते याभीष्टादिक् तस्याः प्राक् स्वस्तिकान्तरे क्षितिजवृत्ते येऽशास्तेऽत्र दिगंशा ज्ञेयाः । अस्मिन् दृङ्मण्डले खमध्यस्य नाडीमण्डलहग्वृत्तसम्पातस्यान्तरांशाः पलाशाः । नाडीमण्डलक्रान्तिमण्डलयोरन्तरांशा दृड्मण्डले क्रान्त्यंशाः । क्षितिजे दिग्ज्या भुजः । पूर्वापरसूत्रखण्डं कोटिः । त्रिज्या तुल्या दृग्ज्या कर्ण: । समवृतखेटमध्यांशजीवां भुवि बाहुमाहुरिति क्षितिजे दिग्ज्यैव भुजः । यथाग्रातुल्य एव भुजः क्षितिजे शङ्कतलाभावात्तथा दिग्ज्यातुल्य एव भुजः । ‘दृग्ज्याश्रुति चात्र तयोस्तु कोटिं पूर्वापरॊ वर्गं वियोगमूलमिति' वक्ष्यते । तथैव लघुक्षेत्रे त्रिभज्याहृतार्काग्रका छाया कर्णगुणा सत्यग्रा भवति पलभैव सर्वदा नियतं शङ्कतलं लघुक्षेत्रे । तत्संस्काराद्भुजः । अपवक्तितपूर्वापरसूत्रं कोटिः । लघुक्षेत्रे दृग्ज्याँस्थानीया छायैव कर्णः' । तस्मादिष्टभुजोऽपि दिग्ज्यावयव एव । क्रान्त्यभावे पलभातुल्य एव भुजो लघुक्षेत्रे । क्रान्त्यभावेऽभीष्टदिशि या छाया सैव लघुक्षेत्र दृग्ज्या । तस्या आनयनेऽनुपातः । यदि दिग्ज्यातुल्येन भुजेन त्रिज्यातुल्या दृग्ज्या तदा पलभातुल्येन भुजेन केति जाता छाया । यद्वा त्रिज्यातुल्यया दिग्ज्यया याम्योदड्मण्डलगतेयं पलभा लभ्यते तदा


R. कर्णेरिति ग। go