पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
8ዩc
सिद्धान्तशिरोमणौ ग्रहगणिते


 इत्यत्र युक्तिरुच्यते । आबाधा भुजः । लम्बः कोटिः । त्रिभुजे यो भुजः स कर्ण इति भुजकर्णज्ञाने कोटिज्ञानमेव । आबाधावगनौ स्वभुजवगौं लम्बवर्गी भवतस्तौ च तुल्याविति यावदेव भुजवर्गान्तरं तावदेवाबाधावर्गान्तरं स्यात् । वर्गान्तरन्तु योगान्तरघातसममिति ‘त्रिभुजे भुजयोर्योगस्तदनन्तरगुणः' इत्युक्तम् । इदमाबाधायोगेन भूम्या भक्तं जातमन्तरम् । ततः सङ्क्रमसूत्रेणाबाधाज्ञानम् । ततो लग्नज्ञानम् ॥

 अथ क्षेत्रफलमुच्यते-समकोष्टमितिः फलमिति प्रसिद्धम् । तत्र विषमजात्यत्र्यस्रद्वयाबद्धत्रिभुजेऽन्यत् समत्रिभुजं तथा योज्यं यथाऽयतं स्यात् ।। *तथा च दर्शनम् । अत्र त्रिभुजभूरेव भुजः, त्रिभुजलम्ब एव कोटिः । अायते भुजाङ्कमिताः समान्तरास्तिर्यग्रेखाः सम्पूर्णायतमध्ये यदि क्रियन्ते, कोटयड्रमिता ऊध्वरेखाश्च, तदा समश्र तवायते भुजकोटिघाततुल्याः समकोष्ठका उत्पद्यन्ते । यस्याद्ध त्रिभुजे फलमिति 'लम्बगुणं भूम्यर्द्धं' फलमभिहितम् । अत्राबाधातुल्यो भुजः लम्बतुल्या कोटिरित्यायतेप्यायतान्तरं समजात्यत्र्यस्रद्वयात्मकमुत्पद्यते, तेन जात्यत्र्यस्रे भुजकोटिरप्यायतार्द्धं फलम् । एवं समजात्यत्र्यस्रचतुष्टयारब्धविषमचतुर्भुजे समलम्बे कुमुखैक्यखण्ड लम्बगुण फल *यतो लम्बगुणं मुखमायतफलम् । जात्ये तु लम्बतुल्यकोटया गुणितं भुजाद्ध फलमिति जात्यद्वयफलमानीय ते यावतावृल्लूम्बगुण मुखोनभूमेरर्द्ध फलुमायाति ! अत्रायतफल योज्यं " लम्बगुण मुखमिति समच्छेदविधानेन ।ों तत्र गुणगुणितयोर्गुण्ययोयोंगे केवलगुण्ययोयोंगे गुणगुणिते वा फलाविशेषाल्लम्बगुणं कुमुखैक्यखण्डं फलमुत्पद्यते । एवं विषमजात्यचतुष्टयारब्धविषमचतुर्भुजे फलं साध्यम् । सर्वेष्वपि चतुर्भुजेषु तेष्वेव बाहुष्वपरौ च ਬ क्षेत्रफलमिति चतुर्भुजं हि एकान्तरकोणावाक्रम्येत्यादिनाचार्येण प्रतिपादतम्

 एवमनियतत्वेऽपि यत्राभीष्टजात्यद्वयबाहुकोटयः परस्परं कर्णहताः भुजाः भवन्ति, तस्मिन् क्षेत्रे विषमचतुर्भुजे नियतवत्कर्णज्ञानं यथा भवति तथा प्रतिपाद्यते । तत्रोदाहृतं क्षेत्रं सकर्णसूत्रमेवं' दृश्यते । इदं विषमजात्यचतुष्टयारब्धम् । तत्रैकं जात्यम् । पञ्चदशमितो भुजः, विशतिः कोटिः, पञ्चविशतिमितः कर्णः। षट्त्रशन्मितो भुजः । पञ्चदशमिता कोटिः, एकोनचत्वारिंशन्मितः कर्णः । अत्र प्रथमभुजे द्वितीयकोटिं संयोज्य जातं त्रिभुजम्। दर्शनम्*। अत्रापि जात्यमिदं षट्त्रशद्भुजमटचत्वारिशन्मितकोटिकं षष्टिमितकर्णकं संयोज्य जातम् । भुजेऽत्रापि कोटिः संयोजिता । अत्रापि जात्यन्तरं विंशतिमितिकोटिकमष्टचत्वारिंशन्मितभुजं द्विपश्चाशन्मितकर्णकं संयोजितं जातं सम्पूर्णं क्षेत्रम् । अत्र जात्यक्षेत्रजभुजकोटच्योर्योगो भुजयोर्योगो वा कोटयोर्योगो विषमचतुर्भुजे कर्णौ दृश्येते । यद्वा प्रथमं जात्यं पञ्चभिरपवत्र्यते । तृतीयन्तु द्वादशभिस्तदा' ‘कोटिश्चतुष्टयं यत्र दोस्त्रयमिति’ जात्यन्तरमुत्पद्यते । द्वितीयं जात्यं त्रिभिरपवत्यंते, चतुर्थं चतुभिस्तदा पञ्चमितभुजं द्वादशमितकोटिकं जात्यान्तरमुत्पद्यते । बृहत्प्रथमजात्यभुजस्तृतीयकोटियुक्तो विषमचतुर्भुजे कर्णौ इति स्थितम् ।


१. परिशिष्ट द्रष्टव्यम् ।  २. ली० क्षे० १८ श्लो० ।।  ३. अतो इति ग० पु० ।

४. परिशिष्ट विलोकनीयम् । ५. ली० क्षे० प्र० सू० प्र० उ० ।