पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/156

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
स्पष्टाधिकारः

 वा० भा० -एषां भौमादीनां चलाश्चलनीचोच्चवृतपरिधिभागा। एते । अथ शुक्रस्य मन्दकेन्द्रे या दोज्य सा द्विगुणिता त्रिगुणेन ३४३८ भाज्या । फलेन मन्दपरिधिस्तस्य रहितः सन् स्फुटो भवति । अथ शुक्रस्य शीघ्रकेन्द्रे या दोज्र्या सा पञ्चगुणा त्रिज्यया भाज्या । फलेन शीघ्रपरिधिर्युतः सन् स्फुटो भवति ॥ अथ भौमस्य प्रथमं शीघ्रकेन्द्रं कृत्वा तद्यस्मिन् पदे वर्तते तस्य यद्गतं यच्च गम्यं तयोरल्पस्य या ज्या सा त्रिभागोनैः सप्तभिरंशैः ६॥४० गुणनीया । ततः पञ्चचत्वरिंशद्धागानां ज्ययानया २४३१ भाज्या । यल्लब्धं भागादिफलं तदनष्टं स्थाप्यम् । तेन कुजस्य मन्दोच्चं सहितं कार्यम् । यदि शीघ्रकेन्द्रं मकारादिषट्के । कक्र्यादिषट्के तु हीनं कार्यम् ॥ एवं मन्दोच्चं स्फुटं भवति ॥ अथ कुजस्य यः पठितः शीघ्रपरिधिः स तेनानष्टस्थापितेन फलेन सदैव वजितः सन् स्फुटो भवति ।

 अत्रोपपत्तिः । एषां भौमादीनां यानि परमाणि शीघ्रफलान्युपलभ्यन्ते तेषां ज्यात्य फलज्या ॥ ततः प्राग्वत् परिधिभागाः ॥ अथ शुक्रस्य ये मन्दपरिधिभागा रुद्रतुल्याः पठितास्तेयुग्मपदान्ते ओजपदान्ते तु नव ९ ।।॥ अवान्तरेऽनुपातः । यदि त्रिज्यया परिध्यन्तर द्वयं २ लभ्यते तदेष्टदोज्यया किमिति । फलेन परिधिरपचीयमानत्वद्वजत: कृतः । तथा तस्य य: शीघ्रपरिधिः पठितो वसुबाणदस्रा इति २५८ एष युग्मपदान्ते । ओजपदान्ते तु पञ्चाधिकः २६३ । अवान्तरेऽनुपातेन यत् फलं तदुपचीयमानत्वाद्धनं कृतम् । अथ भौमस्य यन्मन्दोच्चं गणितागतं तच्छीघ्रकेन्द्रपदसन्धिषु सर्वेषु तथाविधमेव । पदमध्ये पुनस्त्रिभागोने: ससभिरं शैरधिकमेव भवति मृगादिकेन्द्रे ॥ कक्र्यादौ तु हीनम् । तथा तस्य यः शीघ्रपरिधिः पठितः । असौ पदसन्धिषु । पदमध्ये तु तैर्भागैरून एव । तदन्तरेऽनुपातः । यद्यर्धयुतराशिज्यया २४३१ त्रिभागोनाः सस भागा लभ्यन्ते। तदा पदगतगम्याल्पज्यया किमिति । फलमुपचयापचयव शाद्धनर्णम् । अत्रागम एव प्रमाणम् ।।२३-२५॥

 वा० वा०-मन्दोच्चनीचपरिधिरिति । एषामिति । लब्धेनेति । भौमस्येति । ग्रहपरमफलज्याव्यासार्द्धेन यत्कृतं वृत्तं तन्नीचोच्चवृत्तम् । यन्त्रवेधात् परमफलज्या ज्ञान सुगमम्। त्रिज्यावृत्ते चेदियं दोज्या तदान्त्यफलज्यावृत्ते केति ग्रहस्य दो:फलम् वक्ष्यते । यन्त्रवेधेन दो: फलज्ञाने वैपरीत्येन परिधिज्ञानं वा । एवं शुक्रस्येष्ठमन्द फलाद्विलोमेनानीयमानः परिधिर्न सर्वदा रुद्रतुल्यो दृष्टः ।

 अयमर्थ:। यदि ग्रहोच्चान्तरदोज्र्ययानयेदमिष्टदी:फल तदा त्रिज्यया किमिति परमफलं भवति । ततः परिधेरानयनम् । एवमेकांशमितभु *जादेकांशादिभुजवृद्धया प्रत्यंशभुजजीवातः साध्यमानाः यन्त्रवेधोपलब्धेष्टफलत्रराशिकेन परिधयोऽपचीयमाना एव दृष्टाः । तत्रौजपदान्ते नवमितो दृष्टः । युग्मपदान्ते एकादशमितोऽनुमितः । भुजज्यायाः परमऽपचये परिधेः परमोपचयः । भुजज्यायाः परमोपचये परिधेः परमा पचयः । परिध्यन्तरं च द्विमितमत उक्तं भृगुजस्येति । एवं भौमस्यापि योज्यम् । प्रत्यक्षदृष्टेऽर्थे किमनुपपन्नं नामेति सर्वमवदातम् ॥ २२-२५ ॥


१. युजादिति क ख पु० ।