११०
सिद्धान्तशिरोमणौ ग्रहगणिते
खाश्वा ७० भुजङ्दहना ३८ अमरा ३३ भवाश्या ११
पूर्णेषवो ५० निगदिताः क्षितिजादिकानाम् ।। २२ ।।
|
वा० भा०-इह ग्रहफलोपपत्यर्थ मन्दोच्चनीचवृत्तानि पूर्वे: कल्पितानि । तेषां प्रमाणा
न्येतावन्तो भागा:।
अत्रोपपत्तिः । ग्रहस्य यन्त्रवेधविधिना यत् परमं फलमुत्पद्यते तस्य ज्या परमफलज्या
न्यफलज्या चोच्यते । अन्त्यफलज्यातुल्यव्यासार्धे यद्वृत्तमुत्पद्यते तन्त्रीचोच्चवृतम् । तत्परिधि
स्त्रराशिकेन । यदि त्रिज्याव्यासार्धे भांशा: ३६० परिधिस्तदान्त्यफलज्याव्यासार्धे किमिति लब्धं
परिधिभागाः । एवमर्कादीना त्रिलवोनशक्रा इत्यादय उत्पद्यन्ते । २२ ।!
अथ भौमादीनां चलपरिधीनाह
एषां चला: कृतजिनखिलवेन हीना २४३ ॥ ४०
दन्तेन्दवो १३२ वसुरसा ६८ वसुबाणदस्राः २९८ ।।
पूर्णाब्धयो ४० ऽथ भृगुजस्य तु मन्दकेन्द्र
दोःशिञ्जिनी द्विगुणिता त्रिगुणेन ३४३८ भक्ता ॥ २३ ॥
लब्धेन मन्दपरिधी रहितः स्फुटः स्यात्
तच्छीघ्रकेन्द्रभुजमौव्यंथ बाणनिध्नी।
त्रिज्योद्धृताशुपरिधिः फलयुक् स्फुटः स्याड्रौमाशुकेन्द्रपदगम्यगताल्पजीवा। २४ ॥
त्र्यंशोनशैल ६ ।। ४० गुणितार्घयुतस्य राशे
माँव्योद्धृतातलवहीनयुतं मृदूचम् ।
भौमस्य ककिंमकरादिगते स्वकेन्द्रे
लब्धांशकैर्विरहितः परिधिस्तु शैध्न्यः' ॥ २५ ॥
|
१. अत्र लल्ल: ।
वस्वीशा दशबाहवोऽम्बरधृती खाड्रा रसत्र्यश्विनो
मन्दांशा मनुशैलशैलयुगगोसंख्याः स्वमन्दा गुणाः ।
शैध्या रामशराः शशाङ्कदहना भूपास्त्रिवर्गेषवो
नन्दाश्च क्षितिजज्ञजीवभृगुजच्छायासुतानां क्रमात् ।
वेदाक्षीन्दुयमाब्धिभिमृदुमवां दोज्य क्रमेणाहतां
व्यासार्धेन भजेद्गुणाः फलयुता हीनौ ज्ञभृग्वोः स्फुटाः ॥
द्विद्वीन्दुद्विकुभिहतां चलभवां दोज्याँ भजेत् त्रिज्यया
सर्वे शीघ्रमवाः फलेन रहिताः स्पष्टाः स्युरेवं गुणाः ॥
|
(शिष्यधीवू० ग्र० ग० स्प० २८-२९ श्लो० )