पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/131

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
सिद्धान्तशिरोमणी ग्रहगणिते

द्वात्रिशद्भगतैर्मासैदिनैः षोडशभिस्तथा ।
घटिकानां *चतुष्केण पततीत्यधिमासकः ॥

 इति नियमोऽनर्थकः स्यादिति मध्यमः स्वीक्रियतामिति यदि ब्रूयात् प्रतिबूयादेनम्। किं भवता कृष्णद्वितीयायां घटिकाचतुष्टये गतेऽधिकमासारम्भः स्वीकृत: ! तथा सति शिष्टसमाचारभङ्गो दूषणम् ।

किन्न्च

यस्मिन् मासे न संक्रान्तिः सङ्क्रान्तिद्वयमेव वा ।
मलमासः स विज्ञेयो मासे त्रिशत्तमे भवेत् ।
इति काठकगृह्य भवन्मते विरुध्येतं ।
पञ्चमे पञ्चमे वर्ष द्वौ मासावधिमासकौ ।
तेषां कालातिचारेण ग्रहाणामतिचारतः ॥
इन्द्राग्नी यत्र हूयेते मासादिः परिकीतितः ।
अग्नीषोमौ स्थितौ मध्ये समाप्तौ पितृसोमकौ ।
तमतिक्रम्य तु यदा रविगच्छेतू कदाचन ।
अाद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतो बुधैः ॥
असंक्रान्तिद्विसंक्रान्तिः संसर्पाहस्पती उभौ ।
समौ च बहवश्चाब्दे त्वधिमासः परः स्मृतः ॥

 इति महाभारत-लघुहारीत-ज्योतिर्नारदादिवाक्यानि च विरुध्येरन् । इह गणितशास्त्रे श्रीतस्मार्तकर्मानुष्ठानार्थ फलादेशोपयोगाय वा श्रृङ्गोन्नतिग्रहणादिग्रह गणितजातमुच्यते । तत्र फलादेशशास्त्रेषु नारदोक्तसंहितादिषु स्मृतिषु च स्पष्टत्वेनैव व्यवहारः । यत्, गणिते मध्यमानयनं कृतं तत् स्पष्टत्वसाधनार्थमेव । अहर्गणोऽपि स्पष्टाधिमासवशेनैव सैको निरेक: प्राक् साधितः ।

 किञ्च ‘यज्ञादिकालार्थसिद्धये गणितशास्त्रं वदामः ॥' इति वदतामृषीणां यादृशो ग्रहगणितोपबन्धस्तादृश एव कर्मानुष्ठानोपयुक्तो भवति । यस्मिन् मुनिकृतशास्त्रे ग्रहयुतिमहापातादिगणितकर्म स्वल्पं दृश्यते तत्साकाङ्क्षमिति ज्ञेयम् । तस्याकाङ्क्षापूरणमन्यमुनिशास्त्रादुविशेषगणितप्रतिपादकात्कार्यम्।

 ‘सर्वशाखाप्रत्ययमेकं कर्म' इति वत् । यथा च सूर्यसिद्धान्ते महापातसाधने गत्यन्तरं हर उक्तः स च साकाङ्क्ष एव शाकल्ये क्रान्तिगत्यन्तरस्यैव हरत्वाभिधानादिति । तस्मात् स्पष्टत्वेनासङ्क्रान्तिमास एवाधिकमासः ‘द्वात्रिशद्भिर्गतैर्मासैः” इति वाक्यं मध्यममानाभिप्रायेणोक्तम् ‘मासे त्रिशत्तमे भवेत्’ इति वाक्यमुपलक्षणत्वेनाङ्गीकार्यमिति न कोऽपि दोषः ।


१. चतुष्केन क ख ग पु० । वृद्धव० सि० ६५ श्लो० ।

२. अयमंशो ग पु० नास्ति।