पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
मध्यमाधिकारेऽधिकमासादिनिर्णयाध्यायः

माल्पता' २९॥२०॥४० । सा चैषष्टिर्गतिवृश्चिकादित्रयेऽर्कस्य । स ईदृशोऽल्पोऽर्कमासो यदा चन्द्रमासस्यानल्पस्यान्तः पाती भवति तदैकस्मिन् मासे सङ्क्रमणद्वयमुपपद्यते । अत उत्ततं क्षयः कातिकादित्रय इति । पूर्वं किल भाद्रपदोऽसङ्क्रान्तिर्जातस्ततोऽर्कगतेरधिकत्वान्मार्गशीर्षो द्विसङ्क्रान्तिः । ततः पुनर्गतेरल्पत्वाच्चैत्रोऽप्यसङ्क्रान्तिर्भवति । ततो वर्षमध्येऽधिमासद्वयमित्युपपन्नम् ।। ६ ।।

 वा० वा०-अथाथिमासक्षयमासलक्षणमाह । असङ्क्रान्तिमास इति ।

 अत्र गणितशास्त्रे दर्शावधि मासं चान्द्रमुशन्ति । तत्र यस्मिन् दर्शावधिके मासि मेषार्कसङ्क्रमणं स चैत्रः यस्मिन् वृषसङ्क्रमणं स वैशाख इति । एवमन्यत्रापि । यस्मिन् मासि क्रमप्राप्तं सङ्क्रमणं न भवति स एवाधिकमास इति ।

उव्रतञ्च‌

मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः ।
चैत्राद्योऽसौ ज्ञेयः पूत्तिद्वित्वेऽधिमासोऽन्त्यः॥

इति अयमधिमासः स्फुटः स्पष्टमानेनैव अ[ स्यान्न मध्यममानेन ] ।
अनेन वासनानभिज्ञतया स्वच्छन्दं प्रवर्तमानस्य स्वपक्षस्थापनाय च सम्मतिवाक्यानि कल्पयतश्चोलभट्टस्य मध्यममानेनाधिक इति मतं निरस्तम् ।

१. वर्तमानकाले स्वल्पान्तरेणाङ्गीकृताटाद्रिभागमितसूर्यमन्दोच्चे मेषादिराशिस्थितेऽकें साव नदिनानि ।

मे | वृ | मि | क | सि | क | तु | वृ | ध | म | कु | मी ३० | ३१ | ३१ | ३१ || ३१ | ३० | २९ || २९ || २९ || २९ || २९ || ३० YYSS DSDDSS S DDDD SS DJJSS S SSS S DSDSS gA SSSS S OD SS SE SSSSSSJSSS SLSSS DDD ३३ | ५६ | ३२ ३५ | ५२ || ४ || २ || ३९ || ३ o YR R8

 एतन्निबन्धनश्लोकाश्च बापूदेवकृताः ।

त्रिशत् पञ्चशरा देवा मेषेऽर्के दिवसादिकम् ।
वृषे घराग्नयः सिद्धाः षट्शरा मिथुने क्रमात् ॥
धराग्नय: सप्तरामा रदा: कर्के धराग्नय: ।
गजाश्विनोऽक्षरामाश्च सिहे भूवन्हयो द्वयम् ॥
द्विशराश्च स्त्रियां त्रिशद्गोऽश्विनः श्रुतयस्तुले ।
गोऽश्विनोऽद्रिशराः पक्षौ गोऽश्विनो भानि गोऽग्नयः ॥
कौप्यें धनुषि गोदस्रास्तिथयो वन्हयो मृगे।
गोऽश्विनोऽब्धियमाः कुम्भे गोदस्रा गोऽब्धयस्तथा ॥
रामाब्धयो झषे त्रिशद्रामदस्रा धराग्नयः ।

२. चैत्राघः स ज्ञेयः ग पु०।   ३. अयमंशो ग पु० नास्ति।