पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
मध्यमाधिकारे प्रत्यब्दशुद्धयध्याय:


 अथ चन्द्रानयनम्गह ।

रविगुणैस्तिथिभिः पृथगुष्णगुर्लवगतः सहितः स हिमद्युतिः ।
स्वनगभागयुतेन दशाहतक्षयदिनोर्वेरितेन कलान्वितः । १६ ।

 वा० भा०--स रविः पृथग् रविगुणतिथितुल्यैर्भागैः सहितो हिमद्य तिर्भवतीति प्रसिद्धा वासना । परमेवं तिथ्यन्ते । अथ चौदयिकः कार्यः । तिथ्यन्ताकॉदययोर्मध्येऽवमशेषम् । तत् सावनम् । तस्य चान्द्रीकरणायानुपातः । यदि त्रिषष्टया सावनैश्चतुःषष्टितिथयस्तदाऽवमशेषान्तः पातिभिः सावनावयवैः किमिति । पूर्वमवमशेषस्य चतुःषष्टिश्छेद इदानीं गुणस्तुल्यत्वात् तयोर्नाशे कृते त्रिषष्टिरेव हरः । फलं तिथ्यात्मकम् । तद्द्वादशगुणं किल भागाः । पुनः षष्टिगुणं कलाः ॥ एवं द्विससतिर्दशगुणाऽवमशेषस्य गुणस्त्रिषष्टिर्हरः । हरगुणौ नवभिरपवतितौ ॥ हरस्थाने जाताः सस ७ गुणस्थानेऽष्टौ दशगुणाः ८० । यो राशिरष्टभिर्गुणितः ससभिह्रियते स स्वससमांशेनाधिकः कृतो भवति । अत उत्ततं ‘स्वनगभागयुतेन दशाहतक्षयदिनोर्वरितेन कलान्वितः' इति । एवं ताभिः कलाभिश्च युत औदयिकः शशी स्यादित्युपपन्नम् ।। १६ ।।

 वा० वा०-रविगुणैस्तिथिभिरिति । अत्रैवं साध्यमानश्चन्द्रस्तिथ्यन्ते भवति । तस्यौदयिकत्वादहर्गणसाधितावमशेषस्य चान्द्रीकरणं क्रियते । अवमशेषस्य चतुःषष्टिश्छेदः । यदि त्रिषष्टिसावनैश्चतुःषष्टिञ्चान्द्रा लभ्यन्ते तदाऽवमशेषान्तःसावनेन किमिति चतुःषष्टितुल्ययोर्गुणहरयोर्नाशे त्रिषष्टिरेव हरः । द्वादशगुणनमंशकरणाय । पुनः षष्टिगुणं कलीकरणायेति गुणघातो गुणः कृतोऽवमशेषस्य ७२० गुणहरौ नवभिरपवत्र्यं गुणस्थानेऽशीतिः हरस्थाने सप्त । अशीतिसप्तमांशस्तु स्वसप्तमांशाधिकाः दशैव भवन्ति तस्मादुक्तं ‘स्वनगभागयुतेन दशाहतक्षयदिनोर्वरितेन कलान्वितः” इति । अहारराशेः रूपं हरः कल्प्यः दशानामधो रूपं हरस्तदधः सप्तमांशो धनगतः स्थाप्यः । ततः सूत्रेण ।

स्वांशोऽधिकोनः' खलु यत्र तत्र भागानुबन्धे च लवापवाहे ।
तलस्थहारेण हरन्निहन्यात् स्वांशाधिकोऽनेन तु तेन भागान् ॥
इति खवसूनां सप्तमांश इति स्पष्टम् ॥ १६ ।।

 इति वासनावात्तिके प्रत्यब्दशुद्धिः ॥

 इदानी भौमानयमाह ।

दिनगणार्धमधो गुणसङ्गुणं द्युगणसप्तदशांशविवर्जितम् ।
लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजो भवेत् ॥ १७ ।।

 वा० भा० स्पष्टार्थमिदम् ।

 अत्रोपपत्तिः । दिनगणार्धं भागा इति प्रत्यहं त्रिशत् कला गृहीताः ६० । ततः पृथक् त्रिगुणं जातम् द्वै ॥ एताः कलाः पूर्वकलामिश्रीकृता जाताः ॐ ॥ एतत् कुजगतेरधिकम


१. लीलावत्यां भागानु० सूत्रम् ।