पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/123

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
सिद्धान्तशिरोमणौ ग्रहगणिते

शोभनमुक्तम्। अत्र चतुषष्टया गुणनं स्थूलमपि क्षेपे स्वीकृतं स्वल्पान्तरत्वात्। न हि चतुःषष्टिञ्चान्द्राणामेकोऽवमो भवति ‘रुद्रांशकोनाब्धिरसैः क्षयाह” इति गोले प्रतिपादितत्वात् । इतः प्रभृत्या मध्यमाधिकारान्तं भाष्ये सुगमम् । किन्तु कुत्रचिद्विशेषार्थमुच्यते ॥ ११४-१३ ॥

 इदनीं विशेषमाह।

यावत् तिथिभ्योऽभ्यधिकाऽत्र शुद्धिः प्राक्चैत्रत्स्तावदहर्गणः स्यात् ।
प्राक्कूशुद्धिपूर्वेण तथैव खेटाः प्राग्वर्षजातैर्ध्रुवकैः समेताः' ॥१४॥

 वा० भा०-अत्र यावच्चैत्रादितिथिभ्यः शुद्धिर्न शुध्यति तावत् पाश्चात्यर्चेत्रावेरारभ्य तिर्थर्गणयित्वा पूर्ववर्षभवैः शुद्धयब्दपक्षेपदिनैरहर्गणः साध्यः । तस्मादागता ग्रहाः पूर्ववर्षध्रुवकैश्च युताः कार्याः । यतो रव्यब्दादेरहर्गणस्यान्यरव्यब्दान्तं यावदुपचय इयमेवात्र वासना ॥ १४ ll

 इदानीं रव्यानयनमाह।

दिनगणो निजषष्टिलवोनितो भवति तिग्मरुचिः स लवादिकः ।
गुणगुणाद् द्युगणादथ भाजताद् यमयमः २२ कलिकादिफलान्वितः ॥१९॥

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । अत्र बालावबोधार्थ रूपमहर्गाणं कृत्वा ग्रहाणां दिनगतयः साधिताः ।

र 可 बु गु शु उ -q O १३ Y R O O ५९ १० ३१ t Y R R ६ R 6. ३४ २६ ३२ ५९ V9 с с 8 o 8 o いき R乙 Rと Q Yፉ`(ፉ RR ԿՀ Yo २१ () V マと R, 3以 ५.१ ५६ Ro

 दिनगणः स्वषष्टश्यंशोनो भागा इति प्रत्यहमेकोनषष्टि: कला गृहीताः । शेषावयवेन सत्रिभागैः सप्तभिदिनैरेका कला भवति । अतो गुणगुणाद् द्युगणाद्यमयमैर्भाजितादित्युपपन्नम् । १५ ।


१. अत्र लल्ल: ।

 यावन्न मेष व्रजति प्रभाकरस्तावन्न पूर्वध्रुवकान् परित्यजेत् ।

 चैत्र प्रविष्टेऽपि विलोमकर्म वा शुध्द्या विजह्यादगते क्रिय रवौ ।

 भास्वानृणाहर्गणतश्च सिद्धः पात्यो भचक्रात् स्वफलानि चैवम् ।

 स्वस्वध्रुवादप्यथ खेचराणां शोध्यानि यत्नात् प्रवदन्ति सन्तः ॥

( शिष्यधी० ग्र० ग० म० ३५-३६ )