पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८९९
बालमनोरमा ।

.

१९७९ । विभाषा परावराभ्याम् । (५-३-२९)

 परतः । अवरतः । परस्तात् । अवरस्तात् ।

१९८० । अञ्चेर्लुक् । (५-३-३०)

 अञ्चत्यन्ताद्दिक्छब्दादस्तातेर्लुक्स्यात् । 'लुक्तद्धितलुकि' (सू १४०८)। प्राच्यां प्राच्या: प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ।

१९८१ । उपर्युपरिष्टात् । (५-३-३१)

 अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ । उपरेि-उपरिष्टाद्वा [१]वसति, आगतो, रमणीयं वा ।

१९८२ । पश्चात् । (५-३-३२)

 अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ।

१९८३ । उत्तराधरदक्षिणादातिः । (५-३-३४)

 उत्तरात् । अधरात् । दक्षिणात् ।

१९८४ । एनबन्यतरस्यामदूरेऽपञ्चम्याः । (५-३-३५)

 उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चमीं विना ।उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्छब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् । अपरेण ग्रामम् ।


समानकालीनमित्यादिवत् पुरत इति प्रामादिकमेवेति बहवः । विभाषा ॥ अतसुजिति शेषः। पक्षे अस्तातिः । अञ्चेर्लुक् ॥ प्राच्यामिति ॥ लिङ्गविशिष्टपरिभाषया अस्तातेर्लुक् । उपर्युपरिष्टात्॥ "ऊर्ध्वस्य उपभावः रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्च" इति भाष्यम् । तदाह । अस्तातेर्विषये इत्यादिना ॥ वसति, आगतो, रमणीयं वेति । विभक्तित्रयस्य यथासङ्ख्यमन्वयः । पश्चात् ॥ “अपरस्य पश्चभावः, आतश्च प्रत्ययः” इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः । उत्तराधर ॥ आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः । एनबन्यतरस्याम् ॥ “अपञ्चम्या इति प्रागस्य” इति भाष्यम् । सूत्रक्रमे ‘पूर्वाधर’ इत्यसिं वक्ष्यति । ततः प्रागित्यर्थः । उत्तररादिभ्य इति ॥ उत्तराधरदक्षिणादित्यनुवर्तत इति भावः । अदूरे इत्येतद्व्याचष्टे । अवध्यवधिमतोः सामीप्ये इति ॥ पञ्चमीं विनेति ॥ पञ्चम्यन्तान्न भवतीत्यर्थः । यथास्वमिति ॥ एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः । दिक्छब्दमात्रादिति ॥ अञ्चत्यन्तात्तु नेदम् । व्यवस्थितविभाषाश्रयणात् ।


  1. यथाक्रमः सप्तमीपञ्चमीप्रथमाविभक्तयन्तानामुदाहरणम् ।