पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९८
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

 एभ्योऽस्तात्यर्थेऽसिप्रत्यथः स्यात्, तद्योगे चैषां क्रमात् 'पुर्' ' अध्' 'अव्' इत्यादेशाः स्युः ।

१९७६ । अस्ताति च । (५-३-४०)

 अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्याम्-पूर्वस्याः-पूर्वा वा दिक् । पुरः-पुरस्तात् । अधः-अधस्तात् । अवः-अवस्तात् ।

१९७७ । विभाषाऽवरस्य । (५-३-४१)

 अवरस्यास्तातौ परेऽव् स्याद्वा । अवस्तात्-अवरस्तात् । एवं देशे काले च । 'दिशि रूढेभ्यः' किम् । ऐन्द्र्यां वसति । 'सप्तम्याद्यन्तेभ्यः' किम् । पूर्वं ग्रामं गतः । 'दिगादिवृत्तिभ्यः' किम् । पूर्वस्मिन्गुरौ वसति । 'अस्ताति च' (सू १९७६) इति ज्ञापकादसिरस्तातिं न बाधते ।

१९७८ । दक्षिणोत्तराभ्यामतसुच् । (५-३-२८)

 अस्तातेरपवादः । दक्षिणतः, उत्तरतः ।


असीति लुप्तप्रथमाकम् । पुर्, अध्, अव्, एषां द्वन्द्वात्प्रथमाबहुवचनम् । अस्तात्यर्थे इति ॥ दिक्देशकालवृत्तिभ्य इत्यर्थः । अस्ताति च ॥ अस्तातीति लुप्तसप्तमीकम् । अस्तातीति तकारान्तात् सप्तम्येकवचनं वा । पूर्वाधरावराणामिति पुरधव इति चानुवर्तते । तदाह । अस्ताताविति ॥ यद्यपि सूत्रक्रमे ‘पूर्वाधर’ इति ‘अस्ताति च' इति ‘सङ्ख्यायाविधार्थे’ इत्यतः प्राक् पठितम् । तत्र अस्तातौ पुराद्यादेशविधानाय 'अस्ताति च' इति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनाय ‘पूर्वाधर'इत्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति ॥ पूर्वाशब्दात् असिप्रत्ययः प्रकृतेः पुर् आदेशः । पुरस्तादिति ॥ पूर्वाशब्दात् अस्तातिप्रत्ययः प्रकृतेः पुर् आदेशः । अधः, अधस्तादिति ॥ अधरशब्दात् असिप्रत्यय अस्तातिप्रत्यये च प्रकृतेः अध् आदेशे रूपम् । अव इति ॥ अवरशब्दात् असिप्रत्यये प्रकृतेः अव् आदेशे रूपम् । विभाषाऽवरस्य ॥ 'अस्ताति च' इति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह । अवरस्येति ॥एवमिति ॥ पूर्वस्मिन् पूर्वस्मात् पूर्वो वा देशः, कालो वा पुरस्तादित्यादि । पूर्वस्मिन्गुराविति ॥ पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु ‘दिक्छब्देभ्यः’ इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह । आस्नाति चेतीत्यादि ॥ दक्षिणोत्तराभ्याम् ॥ दिग्देशकालवृत्तिभ्यामिति शेषः । दक्षिणतः, उत्तरत इति । नच तसुजेव प्रत्ययोऽस्तु । दिग्वर्तित्वे तु ‘सर्वनाम्नो वृत्तिमात्रे’ इति पुंवत्त्वेनैन दक्षिणतः इत्यादि सिद्धमिति वाच्यम् । स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु अकारोच्चारणमन्यतो विधानार्थम् । तेन पुरत इति सिद्धमित्याहुः ।