पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४०
[कालाधिकार
सिद्धान्तकौमुदीसहिता


द्वे वर्षे धीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । ’परिमाणान्तस्यासंज्ञाशाणयोः’ (सू १६८३) । द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । ’असंज्ञा-’ इति किम् । पञ्च कपालाः परिमाणमस्य पाञ्चकपालिकम् । तद्धितान्तः संज्ञा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ।

१७५५ । चित्तवति नित्यम् । (५-१-८९)

वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक्स्याच्चेतने प्रत्ययार्थे । द्विवर्षो दारकः ।

१७५६ । षष्टिकाः षष्टिरात्रेण पच्यन्ते । (५-१-९०)

बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ।

१७५७ । तेन परिजय्यलभ्यकार्यसुकरम् । (५-१-९३)

मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्यं सुकरं वा मासिकम् ।


इत्यर्थः । निवृत्तादिहु पञ्चस्वर्थेषु भविष्यदर्थं वर्जयित्वा तदितरेषु चतुर्ष्वर्थेषु यस्तद्धितः तस्मिन् परे इति यावत् । द्विवार्षिक इति ॥ द्वाभ्यां वर्षाभ्यां निर्वृत्तः द्वे वर्षे अधीष्टः भृतः भूतो वेत्यर्थः । अत्यन्तसंयोगे द्वितीया । द्वैवर्षिक इति ॥ व्याधिरिति शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात्। नन्वेवं सति द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिक इत्यत्र कथमुत्तरपदवृद्धिः । भविष्यत्वस्य प्रतीतेरित्याशङ्क्य आह । अधीष्टभृतयोरभविष्यतीतिप्रतिषेधो नेति ॥ कुत इत्यत आह । गम्यते हि तत्र भविष्यत्तेति ॥ अध्येषणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्दशक्त्या गम्यते । तद्धितप्रत्ययेन व तथाविधाध्येषणभरणकर्मीभूतौ प्रतीयेते । एवंविधाध्येषणभरणशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवञ्च तत्रापि भविष्यदर्थकतद्धितपरकत्वाभावात् स्यादेवोत्तरपदवृद्धिरित्यर्थः । द्विवार्षिको मनुष्य इति ॥ ’चित्तवति नित्यम्’ इति वक्ष्यमाणस्तु नित्यलुक् न भवति । चित्तवतीत्येवारम्भसामर्थ्यात् नित्यत्वे सिद्धे पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तु द्विवार्षिकः अमनुष्य इति छिन्दन्ति । चित्तवति नित्यम् ॥ प्रत्ययस्येति ॥ खस्य ठञश्चेत्यर्थः । दारकः बालकः । षष्टिकाःतृतीयान्तादिति ॥ षष्टिरात्रशब्दादिति शेषः । तेन परिजय्य ॥ निर्वृत्तादयः पञ्चार्थाः निवृत्ताः । तेन परिजय्यम्, तेन लभ्यम्, तेन कार्यम्, तेन सुकरम्, इत्यर्थेषु तृतीयान्ताट्ठञित्यर्थः