पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८३९
बालमनोरमा ।

१७५२ । सङ्ख्यायाः संवत्सरसङ्ख्यस्य च । (७-३-१५)

सङ्ख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । सङ्ख्यायाः परिमाणान्तस्य' इत्येव सिद्धे संवत्सर ग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ।

१७५३ । वर्षाल्लुक्च । (५-१-८८)

वर्षशब्दान्ताद्द्विगोर्वा खः । पक्षे ठञ्वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवार्षिकः-द्विवर्षः ।

१७५४ ॥ वर्षस्याभविष्यति । (७-३-१६)

उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिकः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः।


खो वा स्यादित्यर्थे पक्षे ठञ् । द्विरात्रीण इति ॥ द्वाभ्यां रात्रिभ्यान्निर्वृत्तः द्वे रात्री अधीष्टो भृतो भूतो भावी वेत्यर्थः । एवमग्रेऽपि यथायोगं ज्ञेयम् । द्व्यहीन इति ॥ द्वाभ्यां अहोभ्यां निर्वृत्तः द्वे अहनी अधीष्टे इत्यादिष्वर्थेषु “तद्धितार्थ’ इति द्विगोःखः, “अहृष्टखोः' इति टिलोपः । समाहाराद्विगोस्तु न खः । टचि कृते अहन्शब्दाभावात् । द्वैयह्निक इति ॥ अहृष्टखोरेव' इति नियमात् न टिलोपः । किन्त्वल्लोपः अह्नादेशो वा । ’न य्वाभ्याम्’ इत्यैच् । ननु द्व्यहीन इत्यत्र “तद्धितार्थ' इति तु द्विगुसमासे कृते “रात्र्यहःसंवत्सराच्च' इति खम्बा धित्वा परत्वात् “राजाहःसखिभ्यः’ इति टचि “अह्नोऽह्न एतेभ्य:’ इत्यह्नादेशे तस्य स्थानिवत्त्वे नाहन्शब्दत्वे टजन्तस्य तदभावात् “रात्र्यहःसंवत्सराच्च' इति खप्रत्ययो न स्यात् । कृतेऽपि खप्रत्यये द्व्यहीन इति स्यादित्यत आह । समासान्तविधेरनित्यत्वान्न टजिति ॥ एवञ्च टजभावे सति नाह्नादेशः । समासान्ते पर एव तद्विधानादिति भावः । समासान्तविधिरनित्यः’ इति षष्ठाध्यायस्य द्वितीये पादे 'द्वित्रिभ्याम्पाद्दन्मूर्धसु बहुव्रीहौ' इति सूत्रभाष्ये स्पष्टम्। अथ संवत्सरान्तस्य खे उदाहरति । द्विसंवत्सरीण इति ॥ ठञि त्वादिवृद्धौ प्राप्तायाम् । सङ्खयायाः संवत्सर आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । संवत्सरश्च सङ्ख्या चेति सम्माहारद्वन्द्वात् षष्ठी । सङ्ख्याया उत्तरपदस्येति।। सङ्ख्यायाः परस्य संवत्सरसङ्ख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थम् । संवत्सरस्य द्वादशमासपरिमाणतया “परिमाणान्तस्यासंज्ञाशाणयोः' इत्येव सिद्धेरित्यत आह । परिमाणान्तस्येत्येवेति ॥

वर्षाल्लुक् च ॥ वा च लुगिति ॥ खठञोरिति शेषः । द्विवर्षीण

इति ॥ खे रूपम् । द्विवर्ष इति ॥ खठोर्लुकि रूपम् । ठञि आदिवृद्धौ प्राप्तायाम् । वर्षस्याभविष्यति ॥ आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे । उत्तरपदस्य वृद्धिः स्यादिति ॥ अभविष्यति यो ञिदादिः तस्मिन्परे