पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९४३
बालमनोरमा ।

यस्य तस्माड्डाच्स्यात्कृभ्वस्तिभिर्योगे । “डाचि विवक्षिते द्वे बहुळम्’ (वा ४६९७) । ' नित्यमाम्रेडिते डाचीति वक्तव्यम्' (वा ३६३८) । डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयो पकारः । पटपटा करोति । “ अव्यक्तानुकरणात्' किम् । ईषत्करोति । “द्व्यजवरार्धात्’ किम् । श्रत्करोति । “अवर-' इति किम् । घरटघरटा करोति । त्रपटत्रपटा करोति । “अनेनकाचः’ इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । “ अनितौ किम् । पटिति करोति ।

२१२९ । कृञो द्वितीयतृतीयशम्बीजात्कृषौ । (५-४-५८)

द्वितीयादिभ्यो डाच्स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्त्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति । द्वितीया


फलितमाह । अनेकाजिति यावदिति ॥ तादृशमर्धमिति ॥ अनेकाच्कम् अर्धं भागः यस्य तत् द्व्यजवरार्धम् । तस्मादित्यर्थः ।कृभ्वस्तिभिः योगे इति ॥ मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । तथा च अनेकाच्कभागयुक्ताद्व्यक्तानुकरणात् शब्दात् कृभ्वस्तियोगे डाच् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणात् डाचमुदाहरिष्यन् पटच्छब्दस्य द्विर्वचनमाह । डाचि विवक्षिते द्वे बहुळमिति ॥ यद्यपि ‘सर्वस्य द्वे' इति प्रकरणे “डाचि द्वे भवतः इति वक्तव्यम्” इत्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परतः इति नार्थः । तथा सति, डाचि सति पटच्छब्दस्य द्विर्वचनम् । सति च द्विर्वेच्वने अर्धस्यानेकाच्त्वात् डाजित्यन्योन्याश्रयापत्तेः । अतः डाचि विवक्षिते इत्याश्रितम् । एवञ्च डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वात् डाच् सूपपादः । पटत् पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति । नित्यमात्रेडिते डाचीति ॥ ‘एक: पूर्वपरयो.’ इत्यधिकारे पररूपप्रकरणे ‘नात्रेडितस्यान्यस्य तु वा' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । डाच्परमिति ॥ डाच् परं यस्मादिति विग्रहः । पकार इति ॥ तथा च पटपटत् आ करोति इति स्थिते डित्त्वाट्टिलोपे पटपटाकरोतीति रूपमित्यर्थः । अवरेति किमिति ॥ द्व्यजर्धादित्येवास्त्वित्यर्थः । घरटघरटाकरोतीति ॥ घरटत् इत्यव्यक्तानुकरणात् डाचि द्विर्वचने पररूपे टिलोपे रूपम् । द्व्यजर्धादित्युक्त्ते तु अर्धभागस्य घरटत् इत्यस्य बह्वच्कत्वाडाच् न स्यादित्यर्थः । अनेकाच इत्येवेति ॥ व्द्यजवरार्धादित्यपनीय ‘अव्यक्तानुकरणादनेकाचोऽनितौ डाच्’ इत्येव सूत्रयितुमुचितभित्यर्थ । एवं हीति ॥ 'अनेकाचोऽनितौ' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वात् डाच् सम्भवतीति “डाचि परतो द्वित्वम्’ इति वक्तुं शक्यमिति भावः । पटितीति ॥ ‘अव्यक्तानुकरणस्य’ इति पररूपम्। कृञो द्वितीय । द्वितीयादिभ्य इति ।। द्वितीय, तृतीय, शम्ब, बीज, इत्येतेभ्य इत्यर्थः । कृञ्ज एव योगे इति ॥ कृञ्ग्रहणात् कृभ्वस्तिर्नानुवर्तते इति भावः । ‘मद्रात्परिवापणे' इति यावत्कृञ इत्यनुवर्तते। बहुळोक्तेरिति ।