पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४४
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

करोति । तृतीया करोति । शम्बशव्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति, शम्बा करोति । बीजेन सह कर्षति, बीजा करोति ।

२१३० । सङ्खयायाश्च गुणान्तायाः । (५-४-५९)

कृञ्जो योगे कृषौ डाच्स्यात् । द्विगुणा करोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ।

२१३१ । समयाच्च यथापनायाम् । (५-४-६०)

कृषौ' इति निवृत्तम् । कृञो योगे डाच्स्यात् । समया करोति । कालं यापयतीत्यर्थ ।

२१३२ । सपत्रनिष्पत्रादतिव्यथने । (५-४-६१)

सपत्रा करोति मृगम् । सपुङ्खशरप्रवेशेन सपत्रं करोतीत्यर्थः । निष्पत्रा करोति । सपुङ्खस्य शरस्यापरपार्श्वे निर्गमनान्निष्पत्रं करोतीत्यर्थः । “अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् ।

२१३३ । निष्कुलान्निष्कोषणे । (५-४-६२)

निष्कुला करोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ।


'डावि बहुळं द्वे भवतः’ इति बहुळग्रहणात् अव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः । शम्बशब्दः प्रतिलोमे इति ॥ वर्तते इति शेषः । बीजेन सह कर्षतीति ॥ आदौ कृष्टक्षेत्रे कुलुत्थादिबीजानां वापे कृते पुनः बीजैः सह कर्षणं प्रसिद्धम् । ‘कर्षात्वत्तः’ इति सूत्रभाष्यप्रामाण्यात् कृषधातुः शब्विकरणोऽस्ति । तेन शविकरणत्वात् कृषतीत्येव युक्तमिति न शङ्कयम् । सङ्ख्यायाश्च ॥ शेषपूरणेन सूत्रं व्याचष्टे। कृञो योगे इति ॥ समयाञ्च ॥ कृषाविति निवृत्तम् । समयशब्दात् यापनायाङ्गम्यमानायां डाजित्यर्थः । समया करोतीति ॥ करोतिरिह यापनायामित्याह । यापयतीति ॥ अतिक्रान्तङ्करोतीत्यर्थः । अद्येदङ्कर्तव्यमित्युक्ते विघ्नङ्कञ्चिदापाद्य कालक्षेपङ्करोतीति यावत् । सपत्त्र ॥ सपत्त्रशब्दात् निष्पत्त्रशब्दात् अतिव्यथनेन डाजित्यर्थः । “व्यध ताडने' चतुर्थान्तः । अतिक्रम्य वेधः अतिव्यधनम् । लक्ष्ये शराः पतन्त्यनेनेति पत्त्रं, शराणाम्पुङ्खगतो बर्हः । भूतलमिति ॥ पुङ्खपर्यन्तं पुङ्खवर्जं वा शरप्रवेशनेन सपत्त्रं निष्पत्त्रं वा भूतलङ्करोतीत्यर्थः । निष्कुलान्निष्कोषणे ॥ डाजिति शेषः । निष्कोषणं अन्तर्गतावयवानाम्बहिः करणम् । निष्कुलाकरोति दाडिममिति ॥ निर्गतङ्कुलं यस्मादिति