पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९४१
बालमनोरमा ।

एषां लोपः स्यात् च्विश्च । अरू करोति । उन्मनी स्यात् । उच्चक्षु करोति । उच्चेती करोति । विरही करोति । विरजी करोति ।

२१२२ । विभाषा साति कार्त्स्न्ये । (५-४-५२)

च्विविषये सातिर्वा स्यात्साकल्ये

२१२३ । सात्पदाद्योः । (८-३-१११)

सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्रमग्निः सम्पद्यतेऽग्निसाद्भवति । अग्नी भवति । महाविभाषया वाक्यमपि । “कार्त्स्न्ये' किम् । एकदेशेन शुक्ली भवति पटः ।

२१२४ । अभिविधेौ सम्पदा च । (५-४-५३ )

सम्पदा कृभ्वस्तिभिश्च योगे सातिर्वा स्याव्द्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । सम्पदा तु वाक्यमेव । अग्निसात्सम्पद्यते अन्निसाद्भवति शस्त्रम् ।


मनस्, चक्षुस्, चेतस्, रहस्, रजस्, इत्येतेषामित्यर्थः । पूर्वेणैव प्रत्यसिद्धेस्तत्सान्नियोगेन अन्त्यलोप इह विधीयते । अरू करोतीति ।। अनरुः अरुः सम्पद्यते तङ्करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्य “च्वौ च' इति दीर्घः । उन्मनी करोतीति ॥ अनुन्मनाः उन्मनाः सम्पद्यते तङ्करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वञ्च । उच्चक्षू करोतीति ॥ अनुच्चक्षुः उच्चक्षुः सम्पद्यते तङ्करोतीत्यर्थः । च्वौ अन्त्यलोपः, दीर्घश्च । उच्चेती करोतीति ॥ अनुच्चेताः उच्चेताः सम्पद्यते तङ्करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्वञ्च । विरही करोतीति ॥ रहः विजनप्रदेशः विशिष्टं रहः विरहः । अविरहः विरहः सम्पद्यते तङ्करोतीत्यर्थ । च्वौ अन्त्यलोपः, ईत्वञ्च । विरजी करोतीति ॥ अविरजाः विरजाः सम्पद्यते तङ्करोतीत्यर्थ । अन्त्यलोपे अस्य च्वौ ईत्वञ्च । विभाषा साति ।। सातीति लुप्तप्रथमाकम् । च्विविषये इति ॥ अभूततद्भावे सम्पद्यकर्तरि कृभ्वस्तियोगे इत्यर्थ । सात्पदाद्योः ॥ शेषपूरणेन सूत्रं व्याचष्टे । सस्य षत्वं न स्यादिति ॥ सातेरवयवस्य पदादेश्च सस्य षत्वं न स्यादित्यर्थः । 'नरपरसृपि इत्यतो नेति ‘अपदान्तस्य’ इत्यतो मूर्धन्य इति चानुवर्तते इति भावः । पदादेरुदाहरति । दधि सिञ्चतीति ॥ षिचिधातोः “धात्वादेष्षस्सः’ इति षस्य सः । तस्य “आदेशप्रत्ययोः' इति षत्वे प्राप्ते अनेन निषेधः । कृत्स्नमिति ॥ सर्वावयवोपेतमित्यर्थः । अग्निसादित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्ते अनेन निषेधः । अग्नी भवतीति ॥ च्विप्रत्यये “च्वौ च' इति दीर्घः । महाविभाषयेति ॥ ‘समर्थानाम्’ इत्यतो वाग्रहणानुवृत्तेरित्यर्थः । महाविभाषया सिद्धे इह विभाषाग्रहणन्तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थः । अभिविधौ सम्पदा च ॥ चकारः कृभ्वस्तिसमुचयार्थः । तदाह । सम्पदा कृभ्वस्तिभिश्चेति ॥ अभिविधावित्यस्य विवरणम् । व्याप्ताविति ॥ पक्षे इति ॥ सातिप्रत्ययाभावपक्षे कृभ्वस्तियोगे पूर्वेण च्विः, सम्पदा योगे तु सातेरभावे वाक्यमेव, नतु च्विः । कृभ्वस्तियोग एव तद्विधानादित्यर्थः ।