पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४०
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

‘अव्ययस्य च्वावीत्वं नेति वाच्यम्’ (वा ५०५२) । दोषाभूतम् अहः । दिवा भूता रात्रिः' । एतच्च 'अव्ययीभावश्च' (सू ४५१) इति सूत्रे भाष्ये उक्तम् ।

२११९ । क्यच्व्योश्च । (६-४-१५२)

हलः परस्यापत्ययकारस्य लोपः स्यात्क्ये च्वौ च परतः । गार्गी भवति ।

२१२० । च्वौ च । (७-४-२६)

च्वौ परे पूर्वस्य दीर्घः स्यात् । शुची भवति । पटू स्यात् । “ अव्ययस्य दीर्घत्वं न' इति केचित् । तन्निर्मूलम् । 'स्वस्ति स्यात्' इति तु महाविभाषया च्वेरभावात्सिद्धम् । “स्वस्ती स्यात्' इत्यपि पक्षे स्यादिति चेद्रस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यत इत्यस्तु । 'रीङृतः’ (सू १२३४) । । मात्री करोति ।

२१२१ । अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । (५-४-५१)


वर्तते । अदोषाभूतमहः। बहुळमेधावरणान्धकारात् दोषाभूतमित्यर्थः। दिवाभूतारात्रिरिति।। दिवेत्याकारान्तमव्ययम् अहनीत्यर्थे । इह तु अहरित्यर्थे वर्तते । चन्द्रिकातिशयवशात् अहर्भूतेत्यर्थः । ननु “अव्ययस्य च्वावीत्त्वं न' इति वार्तिकम् “अस्य च्वौ ’ इति सूत्रभाष्ये न दृश्यते इत्यत आह । एतच्चेति ॥ गार्गी भवतीति वक्ष्यन्नाह ! क्यच्व्योश्च ॥ ‘अल्लोपोऽनः’ इत्यस्मात् लोप इति, “हलस्तद्धितस्य' इत्यस्मात् हल इति, “आपत्यस्य च' इत्यस्मात् आपत्यस्येति चानुवर्तते । तदाह । लः परस्येति ।। गार्गी भवतीति ॥ अगार्ग्यो गार्ग्यः सम्पद्यमानो भवतीत्यर्थः । यञन्तात् च्वौ यकारस्य लोपः । वेर्लोपः । यकारस्य तु ‘आपत्यस्य च इति लोपो न सम्भवति । ईंकारेण व्यवधानात् । 'हलस्तद्धितस्य’ इत्यपि न सम्भवति । तस्य ईति अर्थवत्येव विधानात् । अतो वचनमिति भाव । अथ शुची भवतीति वक्ष्यन्नाह ।च्वौ च ॥ दीर्घः स्यादिति ॥ ‘अकृत्सार्वधातुकयोः' इत्यतस्तदनुवृत्तेरिति भावः । अव्ययस्येति ॥ अव्ययस्य “च्वौ च' इति दीघों नेत्यर्थः । तेन स्वस्ति स्यादित्यत्र च्वौ न दीर्घ इति भावः । तन्निमूर्लमिति ।। भाष्यादावदृष्टत्वादिति मावः । तर्हि स्वस्ति स्यादिति न स्यात् दीर्घप्रसङ्गात् इत्यत आह । स्वस्ति स्यादिति त्विति ॥ ननु महाविभाषया दीर्घभावे स्वस्ति स्यादिति सिद्धावपि कदाचित् स्वस्ती स्यादिति दीर्धो दुर्वार इति शङ्कते । स्वस्ती स्यादित्यपि पक्षे स्यादिति ॥ इष्टापत्तिरित्याह । अस्त्विति ॥ दीर्घतदभावाभ्यां रूपद्वयमिति शेष । प्रामाणिकत्वादुभयमप्यादर्तव्यमिति भावः । ननु शिष्टानङ्गीकारात् कथं दीर्घपाठादर इत्यत आह । यदि नेष्यते इत्यादि ।। मातृशब्दात् च्विप्रत्यये विशेषमाह । रीङृतः इति ॥ अरुर्मनश्चक्षुः ॥ एषामिति ॥ अरुस्


१। भाष्येष्टिभूतम् |