२१०६ । प्रज्ञादिभ्यश्च । (५-४-३८)
प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवत: । बान्धवः ।
२१०७ । मृदस्तिकन् । (५-४-३९)
मृदेव मृत्तिका ।
२१०८ । सस्नौ प्रशंसायाम् । (५-४-४०)
रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा मृत्स्ना । उत्तरसूत्रे अन्यतरस्यां ग्रहाणान्नित्योऽयम् ।
२१०९ ॥ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् । (५-४-४२)
बहूनि ददाति बहुशः । अल्पानि अल्पशः । 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम्' (वा ३३३८) । नेह । बहूनि ददात्यनिष्ठेषु। अल्पं ददात्याभ्युदयिकेषु।
२११० । सङ्ख्यैकवचनाच्च वीप्सायाम् । (५-४-४३)
रूढा इति ।। उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् । प्रज्ञादिभ्यश्च ॥ स्वार्थे अण्णिति शेषः । प्राज्ञ इति ॥ प्रजानातीति प्रज्ञः, ‘इगुपधज्ञा’ इति कः । प्रज्ञशब्दात्स्वार्थे अण् । प्राज्ञीति ।। अण्णन्तत्वात् डीप् । प्रज्ञा अस्यास्तीति विग्रहे तु ‘प्रज्ञाश्रद्धार्चाभ्यः' इति णान्तात् टापि प्राज्ञेति रूपम् । मृदस्तिकन् ।। मृदशब्दात्स्वार्थेतिकन्नित्यर्थः। सस्नौ ॥ प्रशस्तायां मृदि वर्तमानात् मृच्छब्दात्स्वार्थे स स्न एतौ प्रत्ययौ स्त इत्यर्थः । रूपपः इति ॥ प्रशंसायां रूपप्’ इति विहितस्येत्यर्थः । नित्योऽयमिति ॥ सस्नविधिरित्यर्थः । वस्तुतस्तु 'ञ्यादयः प्राग्वुनः’ इत्यादिपरिगणितेषु अनयोः प्रत्ययोरनन्तर्भावादनित्यत्वमेवानयोरुचितमित्याहुः । बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।। बह्वल्पार्थाच्च कारकाभिधायिनः शब्दात्स्वार्थे शस्प्रत्ययो वा स्यादित्यर्थः । बह्वल्पार्थादिति ।। वार्तिकमिदम् । मङ्गळामङ्गळे गम्ये एवायं शसित्यर्थः । बहूनि ददात्यनिष्टेष्विति ॥ भयादिनिमित्तेष्वित्यर्थः । अल्पं ददात्याभ्युदयिकेष्विति । अभ्युदयः श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । आभ्युदयिकेषु बहुदानं अनिष्टेषु अल्पदानञ्च मङ्गळम् । तद्विपरीतदानन्तु अमङ्गळमिति भावः । अर्थग्रहणाद्भूरिशो ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम् । सङ्ख्यैकवचनाच्च । सङ्ख्या च एकवचनश्चेति समाहारद्वन्द्वात्पञ्चमी । एकत्वविशिष्टोऽर्थः उच्यतेऽनेनेत्येकवचन: । एकत्वविशिष्टस्यार्थस्य वचन इति विग्रहः । सङ्ख्यावाचकात्तदन्यस्माच्चैकत्वविशिष्टवाचकात्कारकाभिधायिनः प्रातिपदिकात् वीप्सायां शस् वेत्यर्थः । सङ्ख्यावाचिनः उदाहरति । द्वौ द्वौ ददातीति ॥ 'नित्यवीप्सयोः' इति द्विर्वचनम् । द्विशः इत्यत्र तु न । शसैव वीप्साया उक्तत्वात् । ‘तद्धितश्चासर्वविभक्तिः'