पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९३५
बालमनोरमा ।

२१०० । रक्ते । (५-४-३२)

लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् । 'लिङ्गबाधनं वा' (वा ३३२२) इत्येव । लोहितिका-लोहिनिका शाटी ।

२१०१ । कालाच्च । (५-४-३३)

'वर्णे चानित्ये' (सू २०९९), ‘रक्ते' (सू २१००) इति सूत्रद्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ।

२१०२ । विनयादिभ्यष्ठक् । (५-४-३४)

विनय एव वैनयिकः । सामयिकः । उपायाद्भस्वत्वं च' (ग सू १४४) । औपयिकः ।

२१०३ । वाचो व्याहृतार्थायाम् । (५-४-३५)

सन्दृिष्टार्थायां वाचि विद्यमानाद्वाक्छब्दात्स्वार्थे ठक्च स्यात् । “सन्दे शवाग्वाचिकं स्यात्' इत्यमरः ।

२१०४ । तद्युक्तात्कर्मणोऽण् । (५-४-३६

कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ।

२१०५ । ओषधेरजातौ । (५-४-३७)

स्वार्थेऽण् । औषधं पिबति । 'अजातौ' किम् । ओषधयः क्षेत्रे रूढाः ।


प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः । रक्ते ॥ लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वेणाप्राप्तौ वचनम् । कालाच्च । द्वयमनुवर्तते इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनिये वर्णे उदाहरति । कालकं मुखं वैलक्ष्येणेति । लज्जासूयादिनेत्यर्थः । रक्ते उदाहरति । कालकः पट इति ॥ नील्यादिनेति शेषः । विनयादिभ्यः ॥ उपायाद्ह्रस्वत्वञ्चेति ॥ गणसूत्रमिदम् । उपायशब्दात्स्वार्थे ठक् । प्रकृतेर्दीर्घस्य ह्रस्वत्वञ्चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैय्यर्थ्याद्दीर्घस्येति गम्यते । वाचो व्याहृतार्थायाम्। इदम् अस्य वक्तव्यमिति दूतं प्रति योऽर्थ उच्यते स व्याहृतः । न व्याहृतः अव्याहृतः अर्थः यस्या इति विग्रहः । तदाह । सन्दिष्टार्थायामिति । तद्युक्तात् ।। सन्दिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः । कर्मैव कार्मणमिति । अन्निति प्रकृतिभावान्न टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते । तदाह । वाचिकं श्रुत्वेति ॥ ओषधेरजातौ ॥ औषधम्पिबतीति ॥ शुण्ठीमरीचादिचूर्णमबादिद्रव्यससृष्टं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे