पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७५१
बालमनोरमा ।

१३५९ । अपदातौ साल्वात् । (४-२-१३५)

साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । “ अपदातौ' किम् । साल्वः पदातिर्व्रजति ।

१३६० । गोयवाग्वोश्च । (४-२-१३६)

साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वको गौः-साल्विका यवागूः साल्वमन्यत् ।

१३६१ । गर्तोत्तरपदाच्छः । (४-२-१३७)

देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपद्ग्रहणं बहुच्पूर्वनिरासार्थम् ।

१३६२ । गाहादिभ्यश्च । (४-२-१३८)

छः स्यात् । गहीयः । “मुखपार्श्वतसोलोपश्च' (ग सू ७८) । मुखती यम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् । “कुग्जनस्य परस्य च' (ग सू ८९) । जनकीयम् । परकीयम् । “देवस्य च (ग सू ९०) । देवकीयम् । स्वस्य च स्वकीयम् । “ वेणुकादिभ्यश्छण्वाच्यः (ग सू ९१) । वैणुकीयम् । वैत्रकीयम् । औत्तरपदकीयम् ।

१३६३ । प्राचां कटादेः । (४-२-१३९)

प्राग्देशवाचिनः कटादेश्छ: स्यात् । अणोऽपवादः कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ।


साल्वात् । नियमार्थमिति । साल्वाच्चेदपदातावेवेति नियमार्थमित्यर्थः । गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थ । गर्तोत्तरपदाच्छः । देशे इति ॥ शेषपूरणम् । देशवाचिन इति यावत् । वृकगर्तीयमिति । वृकगर्तो नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छः, इत्येतावतैव केवलगर्तशब्दस्य देशवाचित्वाभावात् ‘गतोत्तरपदात्’ इति सिद्धे उत्तरपद ग्रहणं व्यर्थमित्यत आह । उत्तरपदग्रहणमिति । गाहादिभ्यश्च ॥ गहीय इति ॥ गहो देशविशेषः । मुखपार्श्र्वेति । गहादिगणसूत्रम् । मुखपार्श्वेति लुप्तषष्ठीकम्पदम् । तसन्तयो रेतयोरन्त्यस्य चाच्छः । असम्भवादत्र जनपदस्येति न सम्बध्द्यते । कुग्जनस्येति ॥ गणसूत्रमिदम् । जनशब्दस्य परशब्दस्य च कुगागमः स्यात् । चाच्छः । अत्रापि देश इति न सम्बद्यते । देवस्यच ॥ इदमपि गणसूत्रम्। चात्कुक् छश्च ‘देवाद्यञ्जौ' इत्यस्यापवादः । दैवा नुग्रह इति भाष्यप्रयोगादैवामित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः कुक्च । स्वशब्दो ऽपि गहादिः, आगमशास्त्रस्यानित्यत्वात् स्वीयम् । प्राचाङ्कटादेः । कटनगरीयमिति ।


  • स्वार्थिककन्नन्तात्स्वशब्दाद्गहादेराकृतिगणत्वाच्छः-इति मनोरमातत्वबोधिन्यौ ।