पुत्त्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्त्रः । वासिष्ठः पिता । वासिष्ठः पुत्त्रः । तैकायनिः पिता । तैकायनिः पुत्त्रः । 'एभ्यः' किम् । शिवाद्यण् । कौहडः पिता । ततः इञ् । कौहडि: पुत्त्रः । 'यूनि' किम् । वामरथ्यस्य च्छात्राः वामरथाः । इत्यणो लुक्तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । 'वृद्धाच्छः’ (सू १३३७) । 'इञश्च' (सू १३३३) इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः। पाणिनीयाः ।
कुरोः गोत्रापत्यङ्कौरव्यः । कुर्वादिभ्यो ण्यः । कौरव्यस्यापत्यं युवेत्यर्थे अत इञ् । तस्यानेन लुक् । क्षत्रियप्रत्ययस्योदाहरति । श्वाफल्क इति ॥ श्वफल्कस्य गोत्रापत्यं श्वाफल्कः । 'ऋष्यन्धक' इत्यण् । श्वाफल्कस्यापत्यं युवेत्यर्थे अत इञ् । तस्यानेन लुक् । आर्षप्रत्ययस्योदाहरति । वासिष्ठ इति ॥ वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण्, वासिष्ठस्यापत्यं युवेत्यर्थे इञ् । तस्यानेन लुक् । ञित उदाहरति । तैकायनिरिति ॥ तिकस्य गोत्रं तैकायनिः तिकादिभ्यः फिञ् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण् । तस्यानेन लुक् । वामरथ्यस्येति । वामरथस्य गोत्रापत्यं वामरथ्यः । कुर्वादिभ्यो ण्यः । वामरथ्यस्य छात्रा इत्यर्थे ‘कण्वादिभ्यो गोत्रे’ इति छापवादः अण्, तस्यानेन लुङ् न भवति । तस्य युवार्थकत्वाभावादिति भावः । इत्यणो लुक्तु न भवतीति ॥ ‘ण्यक्षत्रिय' इति सूत्रेण पाणिनिरित्यत्र इञो लुड् न भवतीत्यर्थः । कुत इत्यत आह । आर्षग्रहणेनेति ॥ पाणिनिशब्दे पणिन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाभावान्न ततः परस्य इञो लुगिति भावः । न च पणिन्शब्दाद्गोत्रापत्ये 'ऋष्यन्धक' इत्यणेव कुतो न स्यादिति वाच्यम् । यत्र औत्सर्गिकस्य अणः इञादिना बाधः प्रसक्तः, तत्रैव तद्बाधनार्थम् ऋष्यणः प्रवृत्तेः । “वस्तुतस्तु 'वान्यस्मिन्सपिण्डे' इति सूत्रभाष्ये अत्रिशब्दात् 'इतश्चानिञः' इति ढकि आत्रेयशब्दादिञो 'ण्यक्षत्रियार्ष' इति लुगित्युक्तत्वादिदमुपेक्ष्यम् । ‘ण्यक्षत्रिय' इत्यत्र तु ऋषिवाचकस्य रूढस्यैव ग्रहणम् । पाणिनशब्दः तदपत्ये पाणिनिशब्दश्च न ऋषिवाचकौ । अतः औत्सर्गिकाणन्त एव पाणिनशब्दः” इति शब्देन्दुशेखरे प्रपञ्चितम् । पाणिनिनेति ॥ पाणिनिना प्रोक्तमित्यर्थे 'तेन प्रोक्तम्' इत्यणम्बाधित्वा 'वृद्धाच्छः' इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षिते 'यूनि लुक्' इति इञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादः अण् स्यादित्यत आह । इञश्चेत्यण् तु नेति ॥ पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः । युवसंज्ञया गोत्रसंज्ञाया बाधादिति भावः । यद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकङ्गोत्रमित्युक्तम् । तथाप्यत्र पारिभाषिकमेव गोत्रङ्गृह्यते इति उपरिष्टात् 'इञश्च' इति सूत्रे वक्ष्यते । तत इति ॥ पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेत्ति वेत्यर्थे पाणिनीयशब्दादणि 'प्रोक्ताल्लुक्' इति लुगिति भावः । ननु असत्यपि अध्येतृवेदितृप्रत्ययस्याणो लुकि पाणिनीयशब्दः सिद्ध्यत्येवेत्यत आह । स्वरे स्त्रियाञ्च विशेष इति ॥ अध्येतृवेदितृप्रत्ययस्याणो लुगभावे