सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७२९
बालमनोरमा ।

वासन्तकः । अथर्वाणमधीते आथर्वणिकः। दाण्डिनायन–’ (सू ११४५) इति सूत्रे निपातनाट्टिलोपो न ।

१२७४ ।। प्रोक्ताल्लुक् । (४-२-६४ )

प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक्स्यात् । पणनं पणः । घञर्थे कविधानम्' इति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ।

१२७५ । गाथिविदथिकेशिगणिपणिनश्च । (६-४-१६५)

एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यून्यपत्ये इञ् । पाणिनिः ।

१२७६ । ण्यक्षत्रियार्षमितो यूनि लुगणिञोः । (२-४-५८)

ण्यप्रत्ययान्तात्क्षत्त्रियगात्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्तात् ञितश्च परयोर्युवाभिधायिनोरणिञोर्लुक्स्यात् । कौरव्यः पिता । कौरव्यः


तदधीते तद्वेद' इत्येव । वासन्तिक इति ॥ वसन्तवर्णनपरग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति ॥ अथर्वणा प्रोक्तो वेदः लक्षणया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्य ऋषिभ्यो लुग्वक्तव्यः' इति वचनाल्लुक् । आथर्वणिकः इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्कय आह । दाण्डिनायनेति ॥ वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः । अथ पाणिनि शब्दं व्युत्पादयितुमुपक्रमते । प्रोक्ताल्लुक् ॥ प्रोक्तशब्देन प्रोक्तार्थकप्रत्ययो विवक्षितः । अध्येतृ वेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते ।तदाह । प्रोक्तार्थकेतिपणनं पण इति ॥ स्तुतिरित्यर्थः । ननु 'हलश्च' इति घञि उपधावृद्धिः स्यादित्यत आह । घञर्थे इतिपणीति ॥ 'अत इनिठनौ' इति मत्वर्थे इनिः । तस्येति ॥ पणिनो गोत्रापत्ये तस्यापत्य मित्याणि पाणिन इति रूपमित्यर्थः। अत्र अणः अपत्यत्वात्तस्मिन् परे “इनण्यनपत्ये' इति प्रकृतिभावाभावाट्टिलोपे प्राप्ते । गाथिविदथि ॥ ‘इनण्यनपत्ये' इत्यतः अणीत्यनुवर्तते । प्रकृत्यैकाच' इत्यतः प्रकृत्येति च । तदाह । एतेऽणि प्रकृत्या स्युरिति ॥ गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन्, एते इत्यर्थः । अपत्येऽप्याणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति ॥ मूलप्रकृतिः पणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते ॥ मूलप्रकृतिः पाणिनशब्दात् गोत्राणन्तात् अत इञि पाणिनिरिति रूपमित्यर्थः । पाणिनशब्दस्य अनन्तरा पत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीयो गोत्रापत्ये इञ् न सम्भवति । “एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थ्यात्ये यूनि पाणिनशब्दादनन्तरापत्य प्रत्ययान्तादिञ् सम्भवति । 'गोत्राद्युन्यस्त्रियाम्' इति यून्यपत्ये गोत्रप्रत्ययान्तादेवापत्यप्रत्यय नियमात् । अतः गोत्राण्प्रत्ययान्तात् पाणिनिशब्दानि इञ्प्रत्यय इत्युक्तमिति बोध्द्यम् । अत्र इञो लुकमाशङ्कितुमाह । ण्यक्षत्रियार्ष ॥ ण्यादयः सर्वे गोत्रप्रत्यया एव गृह्यन्ते । 'गोत्रायूनि इत्युक्तः । तदाह । गोत्रप्रत्ययान्तादित्यादि ॥ ण्यप्रत्ययस्योदाहरति । कौरव्य इति