पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६९३
बालमनोरमा ।

११४७ । अत्रिभृगुकुत्सवसिष्ठगौतमाङ्गिरोभ्यश्च । (२-४-६५)

एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ।

११४८ । बह्वच इञः प्राच्यभरतेषु । (२-४-६६)

बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः |

११४९ । न गोपवनादिभ्यः । (२-४-६७)

एभ्यो गोत्रप्रत्ययस्य लुग्र स्यात् । बिदाद्यन्तर्गणोऽयम्। गौपवनाः । शैग्रवाः ।

११५० ॥ तिककितवादिभ्यो द्वन्द्वे । (२-४-६८)

एभ्यो गात्तप्रत्ययस्य बहुत्वे लुक्स्याद्वन्द्वे । तैकायनयश्च कैतवायनयश्च तिकादिभ्यः फिञ्’ (सू ११७८) । तस्य लुक् । तिककितवाः ।

११५१ । उपकादिभ्योऽन्यतरस्यामद्वन्द्वे । (२-४-६९)

एभ्या गात्रप्रत्ययस्य बहुत्वे लुग्वा स्याद्वन्द्वे चाद्वन्द्वे च । औपकाय नाश्च लामकायनाश्च । “नडादिभ्यः फक्' (सू ११०१) । तस्य लुक् । उप कलमकाः—औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः-भ्राष्ट्रकिकापिष्ठलयः । उपकाः–औपकायनाः । – लमकाःलामकायनाः ।


आदिवृद्धिनिवृत्तिः । अत्रिभृगु । पूर्वसूत्राद्भोत्र इति तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह । एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गौतमस्य, अङ्गिरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अखेः “इतश्वानिञ्जः’ इति ढकोऽनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः । बह्वच इञः ॥ प्राच्ये उदाहरति । पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इञो लुक् । भरतगोत्रे उदाहरति । युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यम्बाधित्वा वाह्वादित्वात् इञ् । तस्य लुक् । अबहुत्वे तु यौधिष्ठिरिः । न गोपवनादिभ्यः । बिदाद्यन्तर्गणोऽय मिति । ततश्च अञः “यञञोश्च' इति प्राप्तस्य लुङ् नेति भावः । तिककितव ॥ तैकाय नयश्च कैतवायनयश्चेति ॥ द्वन्द्वविग्रहप्रदर्शनम्। तिककितवा इति । द्वन्द्वे इति सप्तमी निर्देशात् पदद्वयादपि फिञो लुक् । उपकादिभ्यो ॥ चकारमध्याहृत्य आह । द्वन्द्वे चेति ॥ एवञ्च अस्वरितत्वादेव पूर्वसूत्रात् द्वन्द्वग्रहणाननुवृत्त्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव । नच द्वन्द्वे नेति निषेध एव किन्न स्यादिति वाच्यम् । द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन् द्वन्द्वमुदाहरति । भ्राष्ट्रककपिष्ठला इति ॥ इो वा लुक् । अद्वन्द्वे उदाहरति । लमकाः